amor de Deus
O amor de Deus é a maior realidade do universo. Ele nos amou com amor eterno, incondicional e sacrificial — e nada no mundo pode nos separar desse amor.
Amor eterno
Deus amou o mundo de tal maneira que deu o seu Filho. Seu amor é de eternidade a eternidade — nunca falha.
ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।
किन्त्वस्मासु पापिषु सत्स्वपि निमित्तमस्माकं ख्रीष्टः स्वप्राणान् त्यक्तवान्, तत ईश्वरोस्मान् प्रति निजं परमप्रेमाणं दर्शितवान्।
यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु
वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।
Natureza do amor divino
Deus é amor. O amor é paciente, benigno. O amor do Pai nos adota como filhos e nos transforma à sua imagem.
हे प्रियतमाः, वयं परस्परं प्रेम करवाम, यतः प्रेम ईश्वरात् जायते, अपरं यः कश्चित् प्रेम करोति स ईश्वरात् जात ईश्वरं वेत्ति च।
यः प्रेम न करोति स ईश्वरं न जानाति यत ईश्वरः प्रेमस्वरूपः।
अस्मास्वीश्वरस्य प्रेमैतेन प्राकाशत यत् स्वपुत्रेणास्मभ्यं जीवनदानार्थम् ईश्वरः स्वीयम् अद्वितीयं पुत्रं जगन्मध्यं प्रेषितवान्।
वयं यद् ईश्वरे प्रीतवन्त इत्यत्र नहि किन्तु स यदस्मासु प्रीतवान् अस्मत्पापानां प्रायश्चिर्त्तार्थं स्वपुत्रं प्रेषितवांश्चेत्यत्र प्रेम सन्तिष्ठते।
हे प्रियतमाः, अस्मासु यदीश्वरेणैतादृशं प्रेम कृतं तर्हि परस्परं प्रेम कर्त्तुम् अस्माकमप्युचितं।
अस्मास्वीश्वरस्य यत् प्रेम वर्त्तते तद् वयं ज्ञातवन्तस्तस्मिन् विश्वासितवन्तश्च। ईश्वरः प्रेमस्वरूपः प्रेम्नी यस्तिष्ठति स ईश्वरे तिष्ठति तस्मिंश्चेश्वरस्तिष्ठति।
अस्मासु स प्रथमं प्रीतवान् इति कारणाद् वयं तस्मिन् प्रीयामहे।
पश्यत वयम् ईश्वरस्य सन्ताना इति नाम्नाख्यामहे, एतेन पितास्मभ्यं कीदृक् महाप्रेम प्रदत्तवान्, किन्तु संसारस्तं नाजानात् तत्कारणादस्मान् अपि न जानाति।
हे प्रियतमाः, युष्मान् प्रत्यहं नूतनामाज्ञां लिखामीति नहि किन्त्वादितो युष्माभि र्लब्धां पुरातनामाज्ञां लिखामि। आदितो युष्माभि र्यद् वाक्यं श्रुतं सा पुरातनाज्ञा।
पुनरपि युष्मान् प्रति नूतनाज्ञा मया लिख्यत एतदपि तस्मिन् युष्मासु च सत्यं, यतो ऽन्धकारो व्यत्येति सत्या ज्योतिश्चेदानीं प्रकाशते;
यत ईश्वरे यत् प्रेम तत् तदीयाज्ञापालनेनास्माभिः प्रकाशयितव्यं, तस्याज्ञाश्च कठोरा न भवन्ति।
प्रेम चिरसहिष्णु हितैषि च, प्रेम निर्द्वेषम् अशठं निर्गर्व्वञ्च।
Expressões do amor de Deus
O Senhor nos ama com alegria e canta sobre nós. Queni a mim vem, amará; e quem me ama, o Pai o amará.
ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।
किन्तु करुणानिधिरीश्वरो येन महाप्रेम्नास्मान् दयितवान्
तस्य स्वप्रेम्नो बाहुल्याद् अपराधै र्मृतानप्यस्मान् ख्रीष्टेन सह जीवितवान् यतोऽनुग्रहाद् यूयं परित्राणं प्राप्ताः।
प्रभो र्यीशुख्रीष्टस्यानुग्रह ईश्वरस्य प्रेम पवित्रस्यात्मनो भागित्वञ्च सर्व्वान् युष्मान् प्रति भूयात्। तथास्तु।
ईश्वरस्य प्रेम्नि ख्रीष्टस्य सहिष्णुतायाञ्च प्रभुः स्वयं युष्माकम् अन्तःकरणानि विनयतु।