Arca de noé
A arca de Noé é história de salvação e fidelidade. Deus instruiu Noé a construir a arca para salvar sua família e os animais do dilúvio — exemplo supremo de obediência e fé.
अपरं तदानीं यान्यदृश्यान्यासन् तानीश्वरेणादिष्टः सन् नोहो विश्वासेन भीत्वा स्वपरिजनानां रक्षार्थं पोतं निर्म्मितवान् तेन च जगज्जनानां दोषान् दर्शितवान् विश्वासात् लभ्यस्य पुण्यस्याधिकारी बभूव च।
पुरा नोहस्य समये यावत् पोतो निरमीयत तावद् ईश्वरस्य दीर्घसहिष्णुता यदा व्यलम्बत तदा तेऽनाज्ञाग्राहिणोऽभवन्। तेन पोतोनाल्पेऽर्थाद् अष्टावेव प्राणिनस्तोयम् उत्तीर्णाः।
तन्निदर्शनञ्चावगाहनं (अर्थतः शारीरिकमलिनताया यस्त्यागः स नहि किन्त्वीश्वरायोत्तमसंवेदस्य या प्रतज्ञा सैव) यीशुख्रीष्टस्य पुनरुत्थानेनेदानीम् अस्मान् उत्तारयति,
यतः स स्वर्गं गत्वेश्वरस्य दक्षिणे विद्यते स्वर्गीयदूताः शासका बलानि च तस्य वशीभूता अभवन्।
अपरं नोहे विद्यमाने यादृशमभवत् तादृशं मनुजसुतस्यागमनकालेपि भविष्यति।
फलतो जलाप्लावनात् पूर्व्वं यद्दिनं यावत् नोहः पोतं नारोहत्, तावत्कालं यथा मनुष्या भोजने पाने विवहने विवाहने च प्रवृत्ता आसन्;
अपरम् आप्लावितोयमागत्य यावत् सकलमनुजान् प्लावयित्वा नानयत्, तावत् ते यथा न विदामासुः, तथा मनुजसुतागमनेपि भविष्यति।
तदा क्षेत्रस्थितयोर्द्वयोरेको धारिष्यते, अपरस्त्याजिष्यते।
तथा पेषण्या पिंषत्योरुभयो र्योषितोरेका धारिष्यतेऽपरा त्याजिष्यते।