Bem
Fazer o bem é mandamento de Deus e expressão prática do amor cristão. A Bíblia convida a praticar o bem a todos, com alegria, sem se cansar — porque colheremos no tempo próprio.
किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा
परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।
अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः।
अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।
यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।
अपरञ्च युष्माकं प्रेम कापट्यवर्जितं भवतु यद् अभद्रं तद् ऋतीयध्वं यच्च भद्रं तस्मिन् अनुरज्यध्वम्।
कुक्रियया पराजिता न सन्त उत्तमक्रियया कुक्रियां पराजयत।
मां प्रति सर्व्वं कर्म्माप्रतिषिद्धं किन्तु न सर्व्वं हितजनकं सर्व्वम् अप्रतिषिद्धं किन्तु न सर्व्वं निष्ठाजनकं।
इत्यनेन धर्म्मात् मा भ्रंशध्वं। कुसंसर्गेण लोकानां सदाचारो विनश्यति।
अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।
तद्वत् नार्य्योऽपि सलज्जाः संयतमनसश्च सत्यो योग्यमाच्छादनं परिदधतु किञ्च केशसंस्कारैः कणकमुक्ताभि र्महार्घ्यपरिच्छदैश्चात्मभूषणं न कुर्व्वत्यः
स्वीकृतेश्वरभक्तीनां योषितां योग्यैः सत्यर्म्मभिः स्वभूषणं कुर्व्वतां।
यतः स यथास्मान् सर्व्वस्माद् अधर्म्मात् मोचयित्वा निजाधिकारस्वरूपं सत्कर्म्मसूत्सुकम् एकं प्रजावर्गं पावयेत् तदर्थम् अस्माकं कृते आत्मदानं कृतवान्।
ततो हेतो र्यूयं सम्पूर्णं यत्नं विधाय विश्वासे सौजन्यं सौजन्ये ज्ञानं
ज्ञान आयतेन्द्रियताम् आयतेन्द्रियतायां धैर्य्यं धैर्य्य ईश्वरभक्तिम्
ईश्वरभक्तौ भ्रातृस्नेहे च प्रेम युङ्क्त।
अपरं यदि यूयम् उत्तमस्यानुगामिनो भवथ तर्हि को युष्मान् हिंसिष्यते?
अपरं मनुजाः प्रदीपान् प्रज्वाल्य द्रोणाधो न स्थापयन्ति, किन्तु दीपाधारोपर्य्येव स्थापयन्ति, तेन ते दीपा गेहस्थितान् सकलान् प्रकाशयन्ति।
येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।
अत एव स यथा दयालु र्यूयमपि तादृशा दयालवो भवत।