Publicidade

Comunhão com Deus

Por Bíblia Online

A comunhão com Deus é o propósito supremo da existência humana. Fomos criados para viver em intimidade com o Criador — e em Cristo, esse acesso é plenamente restaurado.

Em comunhão com Deus

Deus é fiel, pelo qual fostes chamados à comunhão de seu Filho. A comunhão com Deus é dom da graça e fruto da redenção.

य ईश्वरः स्वपुत्रस्यास्मत्प्रभो र्यीशुख्रीष्टस्यांशिनः कर्त्तुं युष्मान् आहूतवान् स विश्वसनीयः।

यूयम् ईश्वरस्य मन्दिरं युष्मन्मध्ये चेश्वरस्यात्मा निवसतीति किं न जानीथ?

देह एकः सन्नपि यद्वद् बह्वङ्गयुक्तो भवति, तस्यैकस्य वपुषो ऽङ्गानां बहुत्वेन यद्वद् एकं वपु र्भवति, तद्वत् ख्रीष्टः।

प्रभो र्यीशुख्रीष्टस्यानुग्रह ईश्वरस्य प्रेम पवित्रस्यात्मनो भागित्वञ्च सर्व्वान् युष्मान् प्रति भूयात्। तथास्तु।

ईश्वरस्य मन्दिरेण सह वा देवप्रतिमानां का तुलना? अमरस्येश्वरस्य मन्दिरं यूयमेव। ईश्वरेण तदुक्तं यथा, तेषां मध्येऽहं स्वावासं निधास्यामि तेषां मध्ये च यातायातं कुर्व्वन् तेषाम् ईश्वरो भविष्यामि ते च मल्लोका भविष्यन्ति।

केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति।

सर्व्वञ्चैतद् ईश्वरस्य कर्म्म यतो यीशुख्रीष्टेन स एवास्मान् स्वेन सार्द्धं संहितवान् सन्धानसम्बन्धीयां परिचर्य्याम् अस्मासु समर्पितवांश्च।

यतः ईश्वरः ख्रीष्टम् अधिष्ठाय जगतो जनानाम् आगांसि तेषाम् ऋणमिव न गणयन् स्वेन सार्द्धं तान् संहितवान् सन्धिवार्त्ताम् अस्मासु समर्पितवांश्च।

Presença divina

Eis que estou à porta e bato. O Senhor fez sua morada entre nós — e toda a criação é convidada à comunhão eterna.

पश्याहं द्वारि तिष्ठन् तद् आहन्मि यदि कश्चित् मम रवं श्रुत्वा द्वारं मोचयति तर्ह्यहं तस्य सन्निधिं प्रविश्य तेन सार्द्धं भोक्ष्ये सो ऽपि मया सार्द्धं भोक्ष्यते।

अनन्तरं स्वर्गाद् एष महारवो मया श्रुतः पश्यायं मानवैः सार्द्धम् ईश्वरस्यावासः, स तैः सार्द्धं वत्स्यति ते च तस्य प्रजा भविष्यन्ति, ईश्वरश्च स्वयं तेषाम् ईश्वरो भूत्वा तैः सार्द्धं स्थास्यति।

यतो यत्र द्वौ त्रयो वा मम नान्नि मिलन्ति, तत्रैवाहं तेषां मध्येऽस्मि।

केवलं एतेषामर्थे प्रार्थयेऽहम् इति न किन्त्वेतेषामुपदेशेन ये जना मयि विश्वसिष्यन्ति तेषामप्यर्थे प्रार्थेयेऽहम्।

हे पितस्तेषां सर्व्वेषाम् एकत्वं भवतु तव यथा मयि मम च यथा त्वय्येकत्वं तथा तेषामप्यावयोरेकत्वं भवतु तेन त्वं मां प्रेरितवान् इति जगतो लोकाः प्रतियन्तु।

यथावयोरेकत्वं तथा तेषामप्येकत्वं भवतु तेष्वहं मयि च त्वम् इत्थं तेषां सम्पूर्णमेकत्वं भवतु, त्वं प्रेरितवान् त्वं मयि यथा प्रीयसे च तथा तेष्वपि प्रीतवान् एतद्यथा जगतो लोका जानन्ति

तदर्थं त्वं यं महिमानं मह्यम् अददास्तं महिमानम् अहमपि तेभ्यो दत्तवान्।

Viver na comunhão

Quem permanece nele e ele no Senhor, esse dá muito fruto. A comunhão com Deus produz transformação e alegria.

यश्च तस्याज्ञाः पालयति स तस्मिन् तिष्ठति तस्मिन् सोऽपि तिष्ठति; स चास्मान् यम् आत्मानं दत्तवान् तस्मात् सो ऽस्मासु तिष्ठतीति जानीमः।

अपरम् ईश्वरस्य पुत्र आगतवान् वयञ्च यया तस्य सत्यमयस्य ज्ञानं प्राप्नुयामस्तादृशीं धियम् अस्मभ्यं दत्तवान् इति जानीमस्तस्मिन् सत्यमये ऽर्थतस्तस्य पुत्रे यीशुख्रीष्टे तिष्ठामश्च; स एव सत्यमय ईश्वरो ऽनन्तजीवनस्वरूपश्चास्ति।

अस्मभ्यं तेन स्वकीयात्मनोंऽशो दत्त इत्यनेन वयं यत् तस्मिन् तिष्ठामः स च यद् अस्मासु तिष्ठतीति जानीमः।

हे प्रियतमाः, वयं परस्परं प्रेम करवाम, यतः प्रेम ईश्वरात् जायते, अपरं यः कश्चित् प्रेम करोति स ईश्वरात् जात ईश्वरं वेत्ति च।

अस्माभि र्यद् दृष्टं श्रुतञ्च तदेव युष्मान् ज्ञाप्यते तेनास्माभिः सहांशित्वं युष्माकं भविष्यति। अस्माकञ्च सहांशित्वं पित्रा तत्पुत्रेण यीशुख्रीष्टेन च सार्द्धं भवति।

अतएव हे प्रियबालका यूयं तत्र तिष्ठत, तथा सति स यदा प्रकाशिष्यते तदा वयं प्रतिभान्विता भविष्यामः, तस्यागमनसमये च तस्य साक्षान्न त्रपिष्यामहे।

विश्वासेन सपुण्यीकृता वयम् ईश्वरेण सार्द्धं प्रभुणास्माकं यीशुख्रीष्टेन मेलनं प्राप्ताः।

अपरं वयं यस्मिन् अनुग्रहाश्रये तिष्ठामस्तन्मध्यं विश्वासमार्गेण तेनैवानीता वयम् ईश्वरीयविभवप्राप्तिप्रत्याशया समानन्दामः।

अतो हेतोरस्माभिः सरलान्तःकरणै र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज्ञा निश्चला धारयितव्या।

अतएव यूयम् ईश्वरस्य वश्या भवत शयतानं संरुन्ध तेन स युष्मत्तः पलायिष्यते।

ईश्वरस्य समीपवर्त्तिनो भवत तेन स युष्माकं समीपवर्त्ती भविष्यति। हे पापिनः, यूयं स्वकरान् परिष्कुरुध्वं। हे द्विमनोलोकाः, यूयं स्वान्तःकरणानि शुचीनि कुरुध्वं।

Publicidade
Bíblia Online Bíblia Online

Bíblia Online • Versão: 2026-06-22_10-02-25-