Coração puro
Bem-aventurados os puros de coração, porque verão a Deus. A pureza de coração é alvo, privilégio e busca constante do cristão que deseja contemplar a face do Senhor.
Coração puro
Bem-aventurados os puros de coração. A pureza interior precede toda transformação externa e abre os olhos para ver a Deus.
निर्म्मलहृदया मनुजाश्च धन्याः, यस्मात् त ईश्चरं द्रक्ष्यन्ति।
Purificar-se
Todo o que tem essa esperança em Cristo se purifica. O amor procede de coração puro, boa consciência e fé sincera.
तस्मिन् एषा प्रत्याशा यस्य कस्यचिद् भवति स स्वं तथा पवित्रं करोति यथा स पवित्रो ऽस्ति।
हे प्रियतमाः, इदानीं वयम् ईश्वरस्य सन्ताना आस्महे पश्चात् किं भविष्यामस्तद् अद्याप्यप्रकाशितं किन्तु प्रकाशं गते वयं तस्य सदृशा भविष्यामि इति जानीमः, यतः स यादृशो ऽस्ति तादृशो ऽस्माभिर्दर्शिष्यते।
तस्मिन् एषा प्रत्याशा यस्य कस्यचिद् भवति स स्वं तथा पवित्रं करोति यथा स पवित्रो ऽस्ति।
उपदेशस्य त्वभिप्रेतं फलं निर्म्मलान्तःकरणेन सत्संवेदेन निष्कपटविश्वासेन च युक्तं प्रेम।
यौवनावस्थाया अभिलाषास्त्वया परित्यज्यन्तां धर्म्मो विश्वासः प्रेम ये च शुचिमनोभिः प्रभुम् उद्दिश्य प्रार्थनां कुर्व्वते तैः सार्द्धम् ऐक्यभावश्चैतेषु त्वया यत्नो विधीयतां।
मया यत् प्रार्थ्यते तद् इदं युष्माकं प्रेम नित्यं वृद्धिं गत्वा
ज्ञानस्य विशिष्टानां परीक्षिकायाश्च सर्व्वविधबुद्धे र्बाहुल्यं फलतु,
ख्रीष्टस्य दिनं यावद् युष्माकं सारल्यं निर्विघ्नत्वञ्च भवतु, ईश्वरस्य गौरवाय प्रशंसायै च यीशुना ख्रीष्टेन पुण्यफलानां पूर्णता युष्मभ्यं दीयताम् इति।
यूयं कलहविवादर्विजतम् आचारं कुर्व्वन्तोऽनिन्दनीया अकुटिला
ईश्वरस्य निष्कलङ्काश्च सन्तानाइव वक्रभावानां कुटिलाचारिणाञ्च लोकानां मध्ये तिष्ठत,
यतस्तेषां मध्ये यूयं जीवनवाक्यं धारयन्तो जगतो दीपका इव दीप्यध्वे। युष्माभिस्तथा कृते मम यत्नः परिश्रमो वा न निष्फलो जात इत्यहं ख्रीष्टस्य दिने श्लाघां कर्त्तुं शक्ष्यामि।
यूयम् आत्मना सत्यमतस्याज्ञाग्रहणद्वारा निष्कपटाय भ्रातृप्रेम्ने पावितमनसो भूत्वा निर्म्मलान्तःकरणैः परस्परं गाढं प्रेम कुरुत।