Corpo é o templo de Deus
O corpo do cristão é templo de Deus. Ele habita em nós pelo Espírito Santo, fazendo do crente morada viva e sagrada do Altíssimo.
Templo do Deus vivo
Vós sois o templo do Deus vivo. Deus disse: habitarei neles e entre eles andarei. O criador mora em sua criação redimida.
यूयम् ईश्वरस्य मन्दिरं युष्मन्मध्ये चेश्वरस्यात्मा निवसतीति किं न जानीथ?
ईश्वरस्य मन्दिरं येन विनाश्यते सोऽपीश्वरेण विनाशयिष्यते यत ईश्वरस्य मन्दिरं पवित्रमेव यूयं तु तन्मन्दिरम् आध्वे।
युष्माकं यानि वपूंसि तानि युष्मदन्तःस्थितस्येश्वराल्लब्धस्य पवित्रस्यात्मनो मन्दिराणि यूयञ्च स्वेषां स्वामिनो नाध्वे किमेतद् युष्माभि र्न ज्ञायते?
यूयं मूल्येन क्रीता अतो वपुर्मनोभ्याम् ईश्वरो युष्माभिः पूज्यतां यत ईश्वर एव तयोः स्वामी।
ईश्वरस्य मन्दिरेण सह वा देवप्रतिमानां का तुलना? अमरस्येश्वरस्य मन्दिरं यूयमेव। ईश्वरेण तदुक्तं यथा, तेषां मध्येऽहं स्वावासं निधास्यामि तेषां मध्ये च यातायातं कुर्व्वन् तेषाम् ईश्वरो भविष्यामि ते च मल्लोका भविष्यन्ति।
अत इदानीं यूयम् असम्पर्कीया विदेशिनश्च न तिष्ठनतः पवित्रलोकैः सहवासिन ईश्वरस्य वेश्मवासिनश्चाध्वे।
अपरं प्रेरिता भविष्यद्वादिनश्च यत्र भित्तिमूलस्वरूपास्तत्र यूयं तस्मिन् मूले निचीयध्वे तत्र च स्वयं यीशुः ख्रीष्टः प्रधानः कोणस्थप्रस्तरः।
तेन कृत्स्ना निर्म्मितिः संग्रथ्यमाना प्रभोः पवित्रं मन्दिरं भवितुं वर्द्धते।
यूयमपि तत्र संग्रथ्यमाना आत्मनेश्वरस्य वासस्थानं भवथ।
एकैकस्य निवेशनस्य परिजनानां स्थापयिता कश्चिद् विद्यते यश्च सर्व्वस्थापयिता स ईश्वर एव।
मूसाश्च वक्ष्यमाणानां साक्षी भृत्य इव तस्य सर्व्वपरिजनमध्ये विश्वास्योऽभवत् किन्तु ख्रीष्टस्तस्य परिजनानामध्यक्ष इव।
वयं तु यदि विश्वासस्योत्साहं श्लाघनञ्च शेषं यावद् धारयामस्तर्हि तस्य परिजना भवामः।
मूसाश्च वक्ष्यमाणानां साक्षी भृत्य इव तस्य सर्व्वपरिजनमध्ये विश्वास्योऽभवत् किन्तु ख्रीष्टस्तस्य परिजनानामध्यक्ष इव।
वयं तु यदि विश्वासस्योत्साहं श्लाघनञ्च शेषं यावद् धारयामस्तर्हि तस्य परिजना भवामः।
Cristo em nós
Já não sou eu quem vive, mas Cristo vive em mim. A presença de Deus no crente é privilégio e responsabilidade sagrada.
ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।
ततो यीशुः प्रत्युदितवान्, यो जनो मयि प्रीयते स ममाज्ञा अपि गृह्लाति, तेन मम पितापि तस्मिन् प्रेष्यते, आवाञ्च तन्निकटमागत्य तेन सह निवत्स्यावः।
अतो हे भ्रातरः, यीशो रुधिरेण पवित्रस्थानप्रवेशायास्माकम् उत्साहो भवति,
यतः सोऽस्मदर्थं तिरस्करिण्यार्थतः स्वशरीरेण नवीनं जीवनयुक्तञ्चैकं पन्थानं निर्म्मितवान्,
अपरञ्चेश्वरीयपरिवारस्याध्यक्ष एको महायाजकोऽस्माकमस्ति।
अतो हेतोरस्माभिः सरलान्तःकरणै र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज्ञा निश्चला धारयितव्या।
किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।