Crianças
As crianças ocupam lugar especial no coração de Deus. A Bíblia instrui a educá-las, protegê-las e ensiná-las nos caminhos do Senhor desde cedo — formando gerações que temem a Deus.
Herança do Senhor
Os filhos são herança do Senhor. Eles são presentes de Deus — cada criança é um milagre e uma responsabilidade sagrada.
Instruir as crianças
Instrui a criança no caminho em que deve andar. A educação cristã é mandamento repetido através de toda a Escritura.
Disciplinar com amor
A vara e a repreensão dão sabedoria. A disciplina produz o fruto pacífico da justiça nos que são exercitados por ela.
Obediência e promessa
Filhos, obedecei a vossos pais no Senhor. Honra a teu pai e tua mãe para que viva muito tempo sobre a terra.
हे बालकाः, यूयं प्रभुम् उद्दिश्य पित्रोराज्ञाग्राहिणो भवत यतस्तत् न्याय्यं।
त्वं निजपितरं मातरञ्च सम्मन्यस्वेति यो विधिः स प्रतिज्ञायुक्तः प्रथमो विधिः
फलतस्तस्मात् तव कल्याणं देशे च दीर्घकालम् आयु र्भविष्यतीति।
अपरं हे पितरः, यूयं स्वबालकान् मा रोषयत किन्तु प्रभो र्विनीत्यादेशाभ्यां तान् विनयत।
अपरं हे पितरः, यूयं स्वबालकान् मा रोषयत किन्तु प्रभो र्विनीत्यादेशाभ्यां तान् विनयत।
अतो यूयं प्रियबालका इवेश्वरस्यानुकारिणो भवत,
हे बालाः, यूयं सर्व्वविषये पित्रोराज्ञाग्राहिणो भवत यतस्तदेव प्रभोः सन्तोषजनकं।
हे पितरः, युष्माकं सन्ताना यत् कातरा न भवेयुस्तदर्थं तान् प्रति मा रोषयत।
Crianças e o reino
Deixai vir a mim as crianças. Jesus honrou as crianças como modelo de fé e humildade para todo o seu povo.
किन्तु यीशुरुवाच, शिशवो मदन्तिकम् आगच्छन्तु, तान् मा वारयत, एतादृशां शिशूनामेव स्वर्गराज्यं।
किन्तु यीशुरुवाच, शिशवो मदन्तिकम् आगच्छन्तु, तान् मा वारयत, एतादृशां शिशूनामेव स्वर्गराज्यं।
तदानीं शिष्या यीशोः समीपमागत्य पृष्टवन्तः स्वर्गराज्ये कः श्रेष्ठः?
ततो यीशुः क्षुद्रमेकं बालकं स्वसमीपमानीय तेषां मध्ये निधाय जगाद,
युष्मानहं सत्यं ब्रवीमि, यूयं मनोविनिमयेन क्षुद्रबालवत् न सन्तः स्वर्गराज्यं प्रवेष्टुं न शक्नुथ।
यः कश्चिद् एतस्य क्षुद्रबालकस्य सममात्मानं नम्रीकरोति, सएव स्वर्गराजये श्रेष्ठः।
युष्मानहं सत्यं ब्रवीमि, यूयं मनोविनिमयेन क्षुद्रबालवत् न सन्तः स्वर्गराज्यं प्रवेष्टुं न शक्नुथ।
यः कश्चिद् एतस्य क्षुद्रबालकस्य सममात्मानं नम्रीकरोति, सएव स्वर्गराजये श्रेष्ठः।
यः कश्चिद् एतादृशं क्षुद्रबालकमेकं मम नाम्नि गृह्लाति, स मामेव गृह्लाति।
तस्मादवधद्धं, एतेषां क्षुद्रप्राणिनाम् एकमपि मा तुच्छीकुरुत,
एतस्मिन्नेव समये यीशुः पुनरुवाच, हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतो विदुषश्च लोकान् प्रत्येतानि न प्रकाश्य बालकान् प्रति प्रकाशितवान्, इति हेतोस्त्वां धन्यं वदामि।
मेलयितारो मानवा धन्याः, यस्मात् त ईश्चरस्य सन्तानत्वेन विख्यास्यन्ति।
अथ स यथा शिशून् स्पृशेत्, तदर्थं लोकैस्तदन्तिकं शिशव आनीयन्त, किन्तु शिष्यास्तानानीतवतस्तर्जयामासुः।
यीशुस्तद् दृष्ट्वा क्रुध्यन् जगाद, मन्निकटम् आगन्तुं शिशून् मा वारयत, यत एतादृशा ईश्वरराज्याधिकारिणः।
तदा स बालकमेकं गृहीत्वा मध्ये समुपावेशयत् ततस्तं क्रोडे कृत्वा तानवादात्
यः कश्चिदीदृशस्य कस्यापि बालस्यातिथ्यं करोति स ममातिथ्यं करोति; यः कश्चिन्ममातिथ्यं करोति स केवलम् ममातिथ्यं करोति तन्न मत्प्रेरकस्याप्यातिथ्यं करोति।
अथ यीशो र्बुद्धिः शरीरञ्च तथा तस्मिन् ईश्वरस्य मानवानाञ्चानुग्रहो वर्द्धितुम् आरेभे।
भोजने समाप्ते सति यीशुः शिमोन्पितरं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किम् एतेभ्योधिकं मयि प्रीयसे? ततः स उदितवान् सत्यं प्रभो त्वयि प्रीयेऽहं तद् भवान् जानाति; तदा यीशुरकथयत् तर्हि मम मेषशावकगणं पालय।
Identidade e crescimento
Somos filhos de Deus pelo Espírito de adoção. Crescer em Cristo é amadurecer em fé, obediência e amor ao próximo.
तथापि ये ये तमगृह्लन् अर्थात् तस्य नाम्नि व्यश्वसन् तेभ्य ईश्वरस्य पुत्रा भवितुम् अधिकारम् अददात्।
यतो यावन्तो लोका ईश्वरस्यात्मनाकृष्यन्ते ते सर्व्व ईश्वरस्य सन्ताना भवन्ति।
यूयं पुनरपि भयजनकं दास्यभावं न प्राप्ताः किन्तु येन भावेनेश्वरं पितः पितरिति प्रोच्य सम्बोधयथ तादृशं दत्तकपुत्रत्वभावम् प्राप्नुत।
अपरञ्च वयम् ईश्वरस्य सन्ताना एतस्मिन् पवित्र आत्मा स्वयम् अस्माकम् आत्माभिः सार्द्धं प्रमाणं ददाति।
यतः प्राणिगण ईश्वरस्य सन्तानानां विभवप्राप्तिम् आकाङ्क्षन् नितान्तम् अपेक्षते।
ख्रीष्टे यीशौ विश्वसनात् सर्व्वे यूयम् ईश्वरस्य सन्ताना जाताः।
यूयं यावन्तो लोकाः ख्रीष्टे मज्जिता अभवत सर्व्वे ख्रीष्टं परिहितवन्तः।
पश्यत वयम् ईश्वरस्य सन्ताना इति नाम्नाख्यामहे, एतेन पितास्मभ्यं कीदृक् महाप्रेम प्रदत्तवान्, किन्तु संसारस्तं नाजानात् तत्कारणादस्मान् अपि न जानाति।
हे प्रियतमाः, इदानीं वयम् ईश्वरस्य सन्ताना आस्महे पश्चात् किं भविष्यामस्तद् अद्याप्यप्रकाशितं किन्तु प्रकाशं गते वयं तस्य सदृशा भविष्यामि इति जानीमः, यतः स यादृशो ऽस्ति तादृशो ऽस्माभिर्दर्शिष्यते।
तस्मिन् एषा प्रत्याशा यस्य कस्यचिद् भवति स स्वं तथा पवित्रं करोति यथा स पवित्रो ऽस्ति।
हे शिशवः, यूयं तस्य नाम्ना पापक्षमां प्राप्तवन्तस्तस्माद् अहं युष्मान् प्रति लिखामि।
हे प्रियबालकाः, यूयं देवमूर्त्तिभ्यः स्वान् रक्षत। आमेन्।
स्वपरिवाराणाम् उत्तमशासकेन पूर्णविनीतत्वाद् वश्यानां सन्तानानां नियन्त्रा च भवितव्यं।
यदि कश्चित् स्वजातीयान् लोकान् विशेषतः स्वीयपरिजनान् न पालयति तर्हि स विश्वासाद् भ्रष्टो ऽप्यधमश्च भवति।
तथा च पुत्रान् प्रतीव युष्मान् प्रति य उपदेश उक्तस्तं किं विस्मृतवन्तः? "परेशेन कृतां शास्तिं हे मत्पुत्र न तुच्छय। तेन संभर्त्सितश्चापि नैव क्लाम्य कदाचन।
परेशः प्रीयते यस्मिन् तस्मै शास्तिं ददाति यत्। यन्तु पुत्रं स गृह्लाति तमेव प्रहरत्यपि।"
यदि यूयं शास्तिं सहध्वं तर्हीश्वरः पुत्रैरिव युष्माभिः सार्द्धं व्यवहरति यतः पिता यस्मै शास्तिं न ददाति तादृशः पुत्रः कः?
सर्व्वे यस्याः शास्तेरंशिनो भवन्ति सा यदि युष्माकं न भवति तर्हि यूयम् आत्मजा न किन्तु जारजा आध्वे।
अपरम् अस्माकं शारीरिकजन्मदातारोऽस्माकं शास्तिकारिणोऽभवन् ते चास्माभिः सम्मानितास्तस्माद् य आत्मनां जनयिता वयं किं ततोऽधिकं तस्य वशीभूय न जीविष्यामः?
शास्तिश्च वर्त्तमानसमये केनापि नानन्दजनिका किन्तु शोकजनिकैव मन्यते तथापि ये तया विनीयन्ते तेभ्यः सा पश्चात् शान्तियुक्तं धर्म्मफलं ददाति।
पश्चात् तौ स्वगृहमानीय तयोः सम्मुखे खाद्यद्रव्याणि स्थापितवान् तथा स स्वयं तदीयाः सर्व्वे परिवाराश्चेश्वरे विश्वसन्तः सानन्दिता अभवन्।
यौवनावस्थाया अभिलाषास्त्वया परित्यज्यन्तां धर्म्मो विश्वासः प्रेम ये च शुचिमनोभिः प्रभुम् उद्दिश्य प्रार्थनां कुर्व्वते तैः सार्द्धम् ऐक्यभावश्चैतेषु त्वया यत्नो विधीयतां।
अपरं बहुभिः साक्षिभिः प्रमाणीकृतां यां शिक्षां श्रुतवानसि तां विश्वास्येषु परस्मै शिक्षादाने निपुणेषु च लोकेषु समर्पय।
Transmitir a fé
Contaremos à geração vindoura os louvores do Senhor. O legado de fé é o maior presente que damos aos nossos filhos.
मम सन्तानाः सत्यमतमाचरन्तीतिवार्त्तातो मम य आनन्दो जायते ततो महत्तरो नास्ति।
मम सन्तानाः सत्यमतमाचरन्तीतिवार्त्तातो मम य आनन्दो जायते ततो महत्तरो नास्ति।