Doença
A doença é realidade humana que a Bíblia confronta com compaixão e poder. Jesus curou toda enfermidade e prometeu ouvir a oração da fé pelos enfermos.
Jesus, o curador
Jesus percorreu toda a Galileia curando toda enfermidade e doença entre o povo. Pelo seu nome, curas continuam acontecendo.
ततः परं यीशुस्तेषां भजनभवन उपदिशन् राज्यस्य सुसंवादं प्रचारयन् लोकानां यस्य य आमयो या च पीडासीत्, तान् शमयन् शमयंश्च सर्व्वाणि नगराणि ग्रामांश्च बभ्राम।
आमयग्रस्तान् स्वस्थान् कुरुत, कुष्ठिनः परिष्कुरुत, मृतलोकान् जीवयत, भूतान् त्याजयत, विना मूल्यं यूयम् अलभध्वं विनैव मूल्यं विश्राणयत।
आमयग्रस्तान् स्वस्थान् कुरुत, कुष्ठिनः परिष्कुरुत, मृतलोकान् जीवयत, भूतान् त्याजयत, विना मूल्यं यूयम् अलभध्वं विनैव मूल्यं विश्राणयत।
अनन्तरं सन्ध्यायां सत्यां बहुशो भूतग्रस्तमनुजान् तस्य समीपम् आनिन्युः स च वाक्येन भूतान् त्याजयामास, सर्व्वप्रकारपीडितजनांश्च निरामयान् चकार;
तस्मात्, सर्व्वा दुर्ब्बलतास्माकं तेनैव परिधारिता। अस्माकं सकलं व्याधिं सएव संगृहीतवान्। यदेतद्वचनं यिशयियभविष्यद्वादिनोक्तमासीत्, तत्तदा सफलमभवत्।
वस्त्रहीनं मां वसनं पर्य्यधापयत, पीडीतं मां द्रष्टुमागच्छत, कारास्थञ्च मां वीक्षितुम आगच्छत।
तदा धार्म्मिकाः प्रतिवदिष्यन्ति, हे प्रभो, कदा त्वां क्षुधितं वीक्ष्य वयमभोजयाम? वा पिपासितं वीक्ष्य अपाययाम?
कदा वा त्वां विदेशिनं विलोक्य स्वस्थानमनयाम? कदा वा त्वां नग्नं वीक्ष्य वसनं पर्य्यधापयाम?
कदा वा त्वां पीडितं कारास्थञ्च वीक्ष्य त्वदन्तिकमगच्छाम?
तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।
तद्वाक्यं श्रुत्वा यीशुः प्रत्युवाच,अरोगिलोकानां चिकित्सकेन प्रयोजनं नास्ति, किन्तु रोगिणामेव; अहं धार्म्मिकानाह्वातुं नागतः किन्तु मनो व्यावर्त्तयितुं पापिन एव।
तन्नगरस्थान् रोगिणः स्वस्थान् करिष्यथ, ईश्वरीयं राज्यं युष्माकम् अन्तिकम् आगमत् कथामेताञ्च प्रचारयिष्यथ।
ततः परं स द्वादशशिष्यानाहूय भूतान् त्याजयितुं रोगान् प्रतिकर्त्तुञ्च तेभ्यः शक्तिमाधिपत्यञ्च ददौ।
अपरञ्च ईश्वरीयराज्यस्य सुसंवादं प्रकाशयितुम् रोगिणामारोग्यं कर्त्तुञ्च प्रेरणकाले तान् जगाद।
Promessas de cura
Eu sou o Senhor que te sara. As Escrituras prometem cura para o corpo e para a alma aos que confiam em Deus.
हे प्रिय, तवात्मा यादृक् शुभान्वितस्तादृक् सर्व्वविषये तव शुभं स्वास्थ्यञ्च भूयात्।
Oração pelos doentes
A oração da fé salvará o enfermo. Confessai as ofensas uns aos outros e orai uns pelos outros para serdes curados.
युष्माकं कश्चित् पीडितो ऽस्ति? स समितेः प्राचीनान् आह्वातु ते च पभो र्नाम्ना तं तैलेनाभिषिच्य तस्य कृते प्रार्थनां कुर्व्वन्तु।
तस्माद् विश्वासजातप्रार्थनया स रोगी रक्षां यास्यति प्रभुश्च तम् उत्थापयिष्यति यदि च कृतपापो भवेत् तर्हि स तं क्षमिष्यते।
युष्माकं कश्चित् पीडितो ऽस्ति? स समितेः प्राचीनान् आह्वातु ते च पभो र्नाम्ना तं तैलेनाभिषिच्य तस्य कृते प्रार्थनां कुर्व्वन्तु।
तस्माद् विश्वासजातप्रार्थनया स रोगी रक्षां यास्यति प्रभुश्च तम् उत्थापयिष्यति यदि च कृतपापो भवेत् तर्हि स तं क्षमिष्यते।
यूयं परस्परम् अपराधान् अङ्गीकुरुध्वम् आरोग्यप्राप्त्यर्थञ्चैकजनो ऽन्यस्य कृते प्रार्थनां करोतु धार्म्मिकस्य सयत्ना प्रार्थना बहुशक्तिविशिष्टा भवति।
अपरम् उत्कृष्टदर्शनप्राप्तितो यदहम् आत्माभिमानी न भवामि तदर्थं शरीरवेधकम् एकं शूलं मह्यम् अदायि तत् मदीयात्माभिमाननिवारणार्थं मम ताडयिता शयतानो दूतः।
मत्तस्तस्य प्रस्थानं याचितुमहं त्रिस्तमधि प्रभुमुद्दिश्य प्रार्थनां कृतवान्।
ततः स मामुक्तवान् ममानुग्रहस्तव सर्व्वसाधकः, यतो दौर्ब्बल्यात् मम शक्तिः पूर्णतां गच्छतीति। अतः ख्रीष्टस्य शक्ति र्यन्माम् आश्रयति तदर्थं स्वदौर्ब्बल्येन मम श्लाघनं सुखदं।
तस्मात् ख्रीष्टहेतो र्दौर्ब्बल्यनिन्दादरिद्रताविपक्षताकष्टादिषु सन्तुष्याम्यहं। यदाहं दुर्ब्बलोऽस्मि तदैव सबलो भवामि।
Esperança na aflição
Ele tomou sobre si as nossas enfermidades. Mesmo na doença, o coração alegre serve de bom remédio e Deus dá esperança.
पूर्व्वमहं कलेवरस्य दौर्ब्बल्येन युष्मान् सुसंवादम् अज्ञापयमिति यूयं जानीथ।
तदानीं मम परीक्षकं शारीरक्लेशं दृष्ट्वा यूयं माम् अवज्ञाय ऋतीयितवन्तस्तन्नहि किन्त्वीश्वरस्य दूतमिव साक्षात् ख्रीष्ट यीशुमिव वा मां गृहीतवन्तः।
अपरं तवोदरपीडायाः पुनः पुन दुर्ब्बलतायाश्च निमित्तं केवलं तोयं न पिवन् किञ्चिन् मद्यं पिव।
तेषां नेत्रेभ्यश्चाश्रूणि सर्व्वाणीश्वरेण प्रमार्क्ष्यन्ते मृत्युरपि पुन र्न भविष्यति शोकविलापक्लेशा अपि पुन र्न भविष्यन्ति, यतः प्रथमानि सर्व्वाणि व्यतीतिनि।