Domínio próprio
O domínio próprio é fruto do Espírito e marca de maturidade espiritual. A Bíblia ensina que quem governa o próprio espírito é melhor do que quem conquista uma cidade.
Fruto do Espírito
O fruto do Espírito inclui domínio próprio. A graça de Deus nos ensina a viver de maneira sóbria e justa neste mundo.
किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा
परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।
यतो हेतोस्त्राणाजनक ईश्वरस्यानुग्रहः सर्व्वान् मानवान् प्रत्युदितवान्
स चास्मान् इदं शिक्ष्यति यद् वयम् अधर्म्मं सांसारिकाभिलाषांश्चानङ्गीकृत्य विनीतत्वेन न्यायेनेश्वरभक्त्या चेहलोके आयु र्यापयामः,
परमसुखस्याशाम् अर्थतो ऽस्माकं महत ईश्वरस्य त्राणकर्त्तु र्यीशुख्रीष्टस्य प्रभावस्योदयं प्रतीक्षामहे।
यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।
ततो हेतो र्यूयं सम्पूर्णं यत्नं विधाय विश्वासे सौजन्यं सौजन्ये ज्ञानं
ज्ञान आयतेन्द्रियताम् आयतेन्द्रियतायां धैर्य्यं धैर्य्य ईश्वरभक्तिम्
ईश्वरभक्तौ भ्रातृस्नेहे च प्रेम युङ्क्त।
Governar a si mesmo
Melhor é o que domina o seu espírito do que o que toma uma cidade. A cidade sem muros é o homem sem domínio próprio.
पण्यलाभार्थं ये धावन्ति धावतां तेषां सर्व्वेषां केवल एकः पण्यं लभते युष्माभिः किमेतन्न ज्ञायते? अतो यूयं यथा पण्यं लप्स्यध्वे तथैव धावत।
मल्ला अपि सर्व्वभोगे परिमितभोगिनो भवन्ति ते तु म्लानां स्रजं लिप्सन्ते किन्तु वयम् अम्लानां लिप्सामहे।
तस्माद् अहमपि धावामि किन्तु लक्ष्यमनुद्दिश्य धावामि तन्नहि। अहं मल्लइव युध्यामि च किन्तु छायामाघातयन्निव युध्यामि तन्नहि।
इतरान् प्रति सुसंवादं घोषयित्वाहं यत् स्वयमग्राह्यो न भवामि तदर्थं देहम् आहन्मि वशीकुर्व्वे च।
किञ्च यदि तैरिन्द्रियाणि नियन्तुं न शक्यन्ते तर्हि विवाहः क्रियतां यतः कामदहनाद् व्यूढत्वं भद्रं।
मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।
Disciplina e vigilância
Sede sóbrios e vigilantes. O diabo anda em derredor como leão rugidor. A sobriedade nos protege e fortalece.
यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते,
अतो विश्वासे सुस्थिरास्तिष्ठन्तस्तेन सार्द्धं युध्यत, युष्माकं जगन्निवासिभ्रातृष्वपि तादृशाः क्लेशा वर्त्तन्त इति जानीत।
सर्व्वेषाम् अन्तिमकाल उपस्थितस्तस्माद् यूयं सुबुद्धयः प्रार्थनार्थं जाग्रतश्च भवत।
अस्माकं विनिमयेन ख्रीष्टः शरीरसम्बन्धे दण्डं भुक्तवान् अतो हेतोः शरीरसम्बन्धे यो दण्डं भुक्तवान् स पापात् मुक्त
इतिभावेन यूयमपि सुसज्जीभूय देहवासस्यावशिष्टं समयं पुनर्मानवानाम् इच्छासाधनार्थं नहि किन्त्वीश्वरस्येच्छासाधनार्थं यापयत।
आयुषो यः समयो व्यतीतस्तस्मिन् युष्माभि र्यद् देवपूजकानाम् इच्छासाधनं कामकुत्सिताभिलाषमद्यपानरङ्गरसमत्तताघृणार्हदेवपूजाचरणञ्चाकारि तेन बाहुल्यं।
यूयं तैः सह तस्मिन् सर्व्वनाशपङ्के मज्जितुं न धावथ, इत्यनेनाश्चर्य्यं विज्ञाय ते युष्मान् निन्दन्ति।
किन्तु यो जीवतां मृतानाञ्च विचारं कर्त्तुम् उद्यतोऽस्ति तस्मै तैरुत्तरं दायिष्यते।
युष्माकम् एकैको जनः स्वकीयं प्राणाधारं पवित्रं मान्यञ्च रक्षतु,
ये च भिन्नजातीया लोका ईश्वरं न जानन्ति त इव तत् कामाभिलाषस्याधीनं न करोतु।
O senhorio de Cristo
Todo domínio pertence a Cristo. Ele é Senhor dos senhores e Rei dos reis — e nos capacita a viver em santidade.
यतः सोऽस्मान् तिमिरस्य कर्त्तृत्वाद् उद्धृत्य स्वकीयस्य प्रियपुत्रस्य राज्ये स्थापितवान्।
तस्मात् पुत्राद् वयं परित्राणम् अर्थतः पापमोचनं प्राप्तवन्तः।
यतः स यस्याः शक्तेः प्रबलतां ख्रीष्टे प्रकाशयन् मृतगणमध्यात् तम् उत्थापितवान्,
अधिपतित्वपदं शासनपदं पराक्रमो राजत्वञ्चेतिनामानि यावन्ति पदानीह लोके परलोके च विद्यन्ते तेषां सर्व्वेषाम् ऊर्द्ध्वे स्वर्गे निजदक्षिणपार्श्वे तम् उपवेशितवान्,
किन्त्वस्माकं जनपदः स्वर्गे विद्यते तस्माच्चागमिष्यन्तं त्रातारं प्रभुं यीशुख्रीष्टं वयं प्रतीक्षामहे।
स च यया शक्त्या सर्व्वाण्येव स्वस्य वशीकर्त्तुं पारयति तयास्माकम् अधमं शरीरं रूपान्तरीकृत्य स्वकीयतेजोमयशरीरस्य समाकारं करिष्यति।
यतः श्मशानाद् उत्थापितः ख्रीष्टो पुन र्न म्रियत इति वयं जानीमः। तस्मिन् कोप्यधिकारो मृत्यो र्नास्ति।
एतस्मात् शारीरिकाचारिषु तोष्टुम् ईश्वरेण न शक्यं।
किन्त्वीश्वरस्यात्मा यदि युष्माकं मध्ये वसति तर्हि यूयं शारीरिकाचारिणो न सन्त आत्मिकाचारिणो भवथः। यस्मिन् तु ख्रीष्टस्यात्मा न विद्यते स तत्सम्भवो नहि।
आदमा यथा सर्व्वे मरणाधीना जातास्तथा ख्रीष्टेन सर्व्वे जीवयिष्यन्ते।
किन्त्वेकैकेन जनेन निजे निजे पर्य्याय उत्थातव्यं प्रथमतः प्रथमजातफलस्वरूपेन ख्रीष्टेन, द्वितीयतस्तस्यागमनसमये ख्रीष्टस्य लोकैः।
ततः परम् अन्तो भविष्यति तदानीं स सर्व्वं शासनम् अधिपतित्वं पराक्रमञ्च लुप्त्वा स्वपितरीश्वरे राजत्वं समर्पयिष्यति।
यतः ख्रीष्टस्य रिपवः सर्व्वे यावत् तेन स्वपादयोरधो न निपातयिष्यन्ते तावत् तेनैव राजत्वं कर्त्तव्यं।