Esperar no Senhor
Esperar no Senhor é ato de fé e confiança. A Bíblia promete que os que esperam em Deus renovam as forças, recebem direção e experimentam a fidelidade divina no tempo certo.
Renovar as forças
Os que esperam no Senhor renovam as forças. Sobem como águias, correm e não se cansam, caminham e não se fatigam.
Espera paciente
Esperei com paciência no Senhor e Ele se inclinou para mim. Confie nele e descanse — Ele agirá no tempo certo.
Confiança e perseverança
Confie no Senhor de todo o coração. Sede pacientes na tribulação — o Senhor é fiel e cumprirá todas as suas promessas.
तत् केवलं नहि किन्तु क्लेशभोगेऽप्यानन्दामो यतः क्लेशााद् धैर्य्यं जायत इति वयं जानीमः,
धैर्य्याच्च परीक्षितत्वं जायते, परीक्षितत्वात् प्रत्याशा जायते,
यथा चेश्वरस्य महिमयुक्तया शक्त्या सानन्देन पूर्णां सहिष्णुतां तितिक्षाञ्चाचरितुं शक्ष्यथ तादृशेन पूर्णबलेन यद् बलवन्तो भवेत,
हे भ्रातरः, यूयं प्रभोरागमनं यावद् धैर्य्यमालम्बध्वं। पश्यत कृषिवलो भूमे र्बहुमूल्यं फलं प्रतीक्षमाणो यावत् प्रथमम् अन्तिमञ्च वृष्टिजलं न प्राप्नोति तावद् धैर्य्यम् आलम्बते।
यूयमपि धैर्य्यमालम्ब्य स्वान्तःकरणानि स्थिरीकुरुत, यतः प्रभोरुपस्थितिः समीपवर्त्तिन्यभवत्।
पश्यत धैर्य्यशीला अस्माभि र्धन्या उच्यन्ते। आयूबो धैर्य्यं युष्माभिरश्रावि प्रभोः परिणामश्चादर्शि यतः प्रभु र्बहुकृपः सकरुणश्चास्ति।
यूयम् आत्मना सत्यमतस्याज्ञाग्रहणद्वारा निष्कपटाय भ्रातृप्रेम्ने पावितमनसो भूत्वा निर्म्मलान्तःकरणैः परस्परं गाढं प्रेम कुरुत।
यस्माद् यूयं क्षयणीयवीर्य्यात् नहि किन्त्वक्षयणीयवीर्य्याद् ईश्वरस्य जीवनदायकेन नित्यस्थायिना वाक्येन पुनर्जन्म गृहीतवन्तः।
सर्व्वप्राणी तृणैस्तुल्यस्तत्तेजस्तृणपुष्पवत्। तृणानि परिशुष्यति पुष्पाणि निपतन्ति च।
किन्तु वाक्यं परेशस्यानन्तकालं वितिष्ठते। तदेव च वाक्यं सुसंवादेन युष्माकम् अन्तिके प्रकाशितं।
केचिद् यथा विलम्बं मन्यन्ते तथा प्रभुः स्वप्रतिज्ञायां विलम्बते तन्नहि किन्तु कोऽपि यन्न विनश्येत् सर्व्वं एव मनःपरावर्त्तनं गच्छेयुरित्यभिलषन् सो ऽस्मान् प्रति दीर्घसहिष्णुतां विदधाति।
या दश कन्याः प्रदीपान् गृह्लत्यो वरं साक्षात् कर्त्तुं बहिरिताः, ताभिस्तदा स्वर्गीयराज्यस्य सादृश्यं भविष्यति।
तासां कन्यानां मध्ये पञ्च सुधियः पञ्च दुर्धिय आसन्।
या दुर्धियस्ताः प्रदीपान् सङ्गे गृहीत्वा तैलं न जगृहुः,
किन्तु सुधियः प्रदीपान् पात्रेण तैलञ्च जगृहुः।
अनन्तरं वरे विलम्बिते ताः सर्व्वा निद्राविष्टा निद्रां जग्मुः।
अनन्तरम् अर्द्धरात्रे पश्यत वर आगच्छति, तं साक्षात् कर्त्तुं बहिर्यातेति जनरवात्
ताः सर्व्वाः कन्या उत्थाय प्रदीपान् आसादयितुं आरभन्त।
ततो दुर्धियः सुधिय ऊचुः, किञ्चित् तैलं दत्त, प्रदीपा अस्माकं निर्व्वाणाः।
किन्तु सुधियः प्रत्यवदन्, दत्ते युष्मानस्मांश्च प्रति तैलं न्यूनीभवेत्, तस्माद् विक्रेतृणां समीपं गत्वा स्वार्थं तैलं क्रीणीत।
तदा तासु क्रेतुं गतासु वर आजगाम, ततो याः सज्जिता आसन्, तास्तेन साकं विवाहीयं वेश्म प्रविविशुः।
अनन्तरं द्वारे रुद्धे अपराः कन्या आगत्य जगदुः, हे प्रभो, हे प्रभो, अस्मान् प्रति द्वारं मोचय।
किन्तु स उक्तवान्, तथ्यं वदामि, युष्मानहं न वेद्मि।
अतो जाग्रतः सन्तस्तिष्ठत, मनुजसुतः कस्मिन् दिने कस्मिन् दण्डे वागमिष्यति, तद् युष्माभि र्न ज्ञायते।