Filho de Deus
Jesus é o Filho de Deus — a revelação suprema do Pai. Nele habita toda a plenitude da divindade e por Ele temos acesso ao Pai, à salvação e à vida eterna.
A revelação do Filho
O Filho é o resplendor da glória de Deus. Quem vê o Filho vê o Pai. Jesus é a imagem perfeita do Deus invisível.
स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।
दिव्यदूतगणाद् यथा स विशिष्टनाम्नो ऽधिकारी जातस्तथा तेभ्योऽपि श्रेष्ठो जातः।
स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।
कोपि मनुज ईश्वरं कदापि नापश्यत् किन्तु पितुः क्रोडस्थोऽद्वितीयः पुत्रस्तं प्रकाशयत्।
यीशुस्तानाख्यत् मम पिता यत् कार्य्यं करोति तदनुरूपम् अहमपि करोति।
ततो यिहूदीयास्तं हन्तुं पुनरयतन्त यतो विश्रामवारं नामन्यत तदेव केवलं न अधिकन्तु ईश्वरं स्वपितरं प्रोच्य स्वमपीश्वरतुल्यं कृतवान्।
Confissão e fé
Tu és o Cristo, o Filho do Deus vivo! Quem confessa que Jesus é o Filho de Deus, Deus permanece nele.
अपरञ्च यीशुः कैसरिया-फिलिपिप्रदेशमागत्य शिष्यान् अपृच्छत्, योऽहं मनुजसुतः सोऽहं कः? लोकैरहं किमुच्ये?
तदानीं ते कथितवन्तः, केचिद् वदन्ति त्वं मज्जयिता योहन्, केचिद्वदन्ति, त्वम् एलियः, केचिच्च वदन्ति, त्वं यिरिमियो वा कश्चिद् भविष्यद्वादीति।
पश्चात् स तान् पप्रच्छ, यूयं मां कं वदथ? ततः शिमोन् पितर उवाच,
त्वममरेश्वरस्याभिषिक्तपुत्रः।
अनन्तरं यीशुरम्मसि मज्जितुः सन् तत्क्षणात् तोयमध्याद् उत्थाय जगाम, तदा जीमूतद्वारे मुक्ते जाते, स ईश्वरस्यात्मानं कपोतवद् अवरुह्य स्वोपर्य्यागच्छन्तं वीक्षाञ्चक्रे।
अपरम् एष मम प्रियः पुत्र एतस्मिन्नेव मम महासन्तोष एतादृशी व्योमजा वाग् बभूव।
यीशुरीश्वरस्य पुत्र एतद् येनाङ्गीक्रियते तस्मिन् ईश्वरस्तिष्ठति स चेश्वरे तिष्ठति।
अस्मास्वीश्वरस्य प्रेमैतेन प्राकाशत यत् स्वपुत्रेणास्मभ्यं जीवनदानार्थम् ईश्वरः स्वीयम् अद्वितीयं पुत्रं जगन्मध्यं प्रेषितवान्।
वयं यद् ईश्वरे प्रीतवन्त इत्यत्र नहि किन्तु स यदस्मासु प्रीतवान् अस्मत्पापानां प्रायश्चिर्त्तार्थं स्वपुत्रं प्रेषितवांश्चेत्यत्र प्रेम सन्तिष्ठते।
यः पापाचारं करोति स शयतानात् जातो यतः शयतान आदितः पापाचारी शयतानस्य कर्म्मणां लोपार्थमेवेश्वरस्य पुत्रः प्राकाशत।
यः पुत्रं धारयति स जीवनं धारियति, ईश्वरस्य पुत्रं यो न धारयति स जीवनं न धारयति।
Vida no Filho
Deus enviou seu Filho ao mundo para que vivêssemos por Ele. O Filho dá vida, julga e reconcilia os pecadores com o Pai.
ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।
वस्तुतस्तु पिता यथा प्रमितान् उत्थाप्य सजिवान् करोति तद्वत् पुत्रोपि यं यं इच्छति तं तं सजीवं करोति।
सर्व्वे पितरं यथा सत्कुर्व्वन्ति तथा पुत्रमपि सत्कारयितुं पिता स्वयं कस्यापि विचारमकृत्वा सर्व्वविचाराणां भारं पुत्रे समर्पितवान्।
यः पुत्रं सत् करोति स तस्य प्रेरकमपि सत् करोति।
अहं युष्मानतियथार्थं वदामि यदा मृता ईश्वरपुत्रस्य निनादं श्रोष्यन्ति ये च श्रोष्यन्ति ते सजीवा भविष्यन्ति समय एतादृश आयाति वरम् इदानीमप्युपतिष्ठति।
पिता यथा स्वयञ्जीवी तथा पुत्राय स्वयञ्जीवित्वाधिकारं दत्तवान्।
तथापि ये ये तमगृह्लन् अर्थात् तस्य नाम्नि व्यश्वसन् तेभ्य ईश्वरस्य पुत्रा भवितुम् अधिकारम् अददात्।
तेषां जनिः शोणितान्न शारीरिकाभिलाषान्न मानवानामिच्छातो न किन्त्वीश्वरादभवत्।
ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।
अनन्तरं समये सम्पूर्णतां गतवति व्यवस्थाधीनानां मोचनार्थम्
अस्माकं पुत्रत्वप्राप्त्यर्थञ्चेश्वरः स्त्रिया जातं व्यवस्थाया अधिनीभूतञ्च स्वपुत्रं प्रेषितवान्।
यूयं सन्ताना अभवत तत्कारणाद् ईश्वरः स्वपुत्रस्यात्मानां युष्माकम् अन्तःकरणानि प्रहितवान् स चात्मा पितः पितरित्याह्वानं कारयति।
फलतो वयं यदा रिपव आस्म तदेश्वरस्य पुत्रस्य मरणेन तेन सार्द्धं यद्यस्माकं मेलनं जातं तर्हि मेलनप्राप्ताः सन्तोऽवश्यं तस्य जीवनेन रक्षां लप्स्यामहे।