Filhos de Deus
Ser filho de Deus é o maior privilégio da existência humana. Pela fé em Cristo, recebemos o direito de ser chamados filhos de Deus — herdeiros de Deus e co-herdeiros com Cristo.
O direito de ser filho
A todos que creram no nome de Jesus, deu-lhes o poder de serem feitos filhos de Deus — nascidos não do sangue, mas de Deus.
तथापि ये ये तमगृह्लन् अर्थात् तस्य नाम्नि व्यश्वसन् तेभ्य ईश्वरस्य पुत्रा भवितुम् अधिकारम् अददात्।
तेषां जनिः शोणितान्न शारीरिकाभिलाषान्न मानवानामिच्छातो न किन्त्वीश्वरादभवत्।
ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।
किन्तु यीशुरीश्वरस्याभिषिक्तः सुत एवेति यथा यूयं विश्वसिथ विश्वस्य च तस्य नाम्ना परमायुः प्राप्नुथ तदर्थम् एतानि सर्व्वाण्यलिख्यन्त।
ख्रीष्टे यीशौ विश्वसनात् सर्व्वे यूयम् ईश्वरस्य सन्ताना जाताः।
यूयं यावन्तो लोकाः ख्रीष्टे मज्जिता अभवत सर्व्वे ख्रीष्टं परिहितवन्तः।
अनन्तरं समये सम्पूर्णतां गतवति व्यवस्थाधीनानां मोचनार्थम्
अस्माकं पुत्रत्वप्राप्त्यर्थञ्चेश्वरः स्त्रिया जातं व्यवस्थाया अधिनीभूतञ्च स्वपुत्रं प्रेषितवान्।
अत इदानीं यूयं न दासाः किन्तुः सन्ताना एव तस्मात् सन्तानत्वाच्च ख्रीष्टेनेश्वरीयसम्पदधिकारिणोऽप्याध्वे।
A identidade dos filhos
O Espírito testifica com nosso espírito que somos filhos de Deus. E se filhos, também herdeiros — herdeiros de Deus.
यतो यावन्तो लोका ईश्वरस्यात्मनाकृष्यन्ते ते सर्व्व ईश्वरस्य सन्ताना भवन्ति।
यूयं पुनरपि भयजनकं दास्यभावं न प्राप्ताः किन्तु येन भावेनेश्वरं पितः पितरिति प्रोच्य सम्बोधयथ तादृशं दत्तकपुत्रत्वभावम् प्राप्नुत।
अपरञ्च वयम् ईश्वरस्य सन्ताना एतस्मिन् पवित्र आत्मा स्वयम् अस्माकम् आत्माभिः सार्द्धं प्रमाणं ददाति।
अर्थात् शारीरिकसंसर्गात् जाताः सन्ताना यावन्तस्तावन्त एवेश्वरस्य सन्ताना न भवन्ति किन्तु प्रतिश्रवणाद् ये जायन्ते तएवेश्वरवंशो गण्यते।
Viver como filhos
Vede que grande amor o Pai nos concedeu: que fôssemos chamados filhos de Deus! E é isso que somos.
पश्यत वयम् ईश्वरस्य सन्ताना इति नाम्नाख्यामहे, एतेन पितास्मभ्यं कीदृक् महाप्रेम प्रदत्तवान्, किन्तु संसारस्तं नाजानात् तत्कारणादस्मान् अपि न जानाति।
इत्यनेनेश्वरस्य सन्तानाः शयतानस्य च सन्ताना व्यक्ता भवन्ति। यः कश्चिद् धर्म्माचारं न करोति स ईश्वरात् जातो नहि यश्च स्वभ्रातरि न प्रीयते सो ऽपीश्वरात् जातो नहि।
मेलयितारो मानवा धन्याः, यस्मात् त ईश्चरस्य सन्तानत्वेन विख्यास्यन्ति।
पश्चात् स तान् पप्रच्छ, यूयं मां कं वदथ? ततः शिमोन् पितर उवाच,
त्वममरेश्वरस्याभिषिक्तपुत्रः।
ततो यीशुः कथितवान्, हे यूनसः पुत्र शिमोन् त्वं धन्यः; यतः कोपि अनुजस्त्वय्येतज्ज्ञानं नोदपादयत्, किन्तु मम स्वर्गस्यः पितोदपादयत्।
यदि यूयं शास्तिं सहध्वं तर्हीश्वरः पुत्रैरिव युष्माभिः सार्द्धं व्यवहरति यतः पिता यस्मै शास्तिं न ददाति तादृशः पुत्रः कः?
सर्व्वे यस्याः शास्तेरंशिनो भवन्ति सा यदि युष्माकं न भवति तर्हि यूयम् आत्मजा न किन्तु जारजा आध्वे।