Honestidade
A honestidade é virtude cristã fundamental. Deus é Deus de verdade e nos chama a viver com integridade, transparência e retidão em todos os nossos relacionamentos e negócios.
Integridade diante de Deus
O Senhor abomina a balança falsa, mas o peso justo é seu prazer. A integridade dos justos os guia pelos caminhos retos.
किन्तु त्रपायुक्तानि प्रच्छन्नकर्म्माणि विहाय कुटिलताचरणमकुर्व्वन्त ईश्वरीयवाक्यं मिथ्यावाक्यैरमिश्रयन्तः सत्यधर्म्मस्य प्रकाशनेनेश्वरस्य साक्षात् सर्व्वमानवानां संवेदगोचरे स्वान् प्रशंसनीयान् दर्शयामः।
यतः केवलं प्रभोः साक्षात् तन्नहि किन्तु मानवानामपि साक्षात् सदाचारं कर्त्तुम् आलोचामहे।
Praticar a honestidade
Falai a verdade, pagai o que deveis, não negueis ao próximo o bem. A honestidade prática é testemunho do evangelho.
यूयं परस्परं मृषाकथां न वदत यतो यूयं स्वकर्म्मसहितं पुरातनपुरुषं त्यक्तवन्तः
अस्मात् करग्राहिणे करं दत्त, तथा शुल्कग्राहिणे शुल्कं दत्त, अपरं यस्माद् भेतव्यं तस्माद् बिभीत, यश्च समादरणीयस्तं समाद्रियध्वम्; इत्थं यस्य यत् प्राप्यं तत् तस्मै दत्त।
एतस्माद् युष्माकं राजकरदानमप्युचितं यस्माद् ये करं गृह्लन्ति त ईश्वरस्य किङ्करा भूत्वा सततम् एतस्मिन् कर्म्मणि निविष्टास्तिष्ठन्ति।
परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत।
Confissão e transparência
Confessai as vossas ofensas uns aos outros. Quem confessa e deixa o pecado encontra misericórdia e restauração.
यूयं परस्परम् अपराधान् अङ्गीकुरुध्वम् आरोग्यप्राप्त्यर्थञ्चैकजनो ऽन्यस्य कृते प्रार्थनां करोतु धार्म्मिकस्य सयत्ना प्रार्थना बहुशक्तिविशिष्टा भवति।
हे भ्रातरः विशेषत इदं वदामि स्वर्गस्य वा पृथिव्या वान्यवस्तुनो नाम गृहीत्वा युष्माभिः कोऽपि शपथो न क्रियतां, किन्तु यथा दण्ड्या न भवत तदर्थं युष्माकं तथैव तन्नहि चेतिवाक्यं यथेष्टं भवतु।
किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।
वयं तेन सहांशिन इति गदित्वा यद्यन्धाकारे चरामस्तर्हि सत्याचारिणो न सन्तो ऽनृतवादिनो भवामः।
हे मम प्रियबालकाः, वाक्येन जिह्वया वास्माभिः प्रेम न कर्त्तव्यं किन्तु कार्य्येण सत्यतया चैव।
Coração puro
Bem-aventurados os puros de coração, porque verão a Deus. A honestidade começa no interior e se manifesta nas ações.
निर्म्मलहृदया मनुजाश्च धन्याः, यस्मात् त ईश्चरं द्रक्ष्यन्ति।
अपरं त्वम् ईश्वरस्य साक्षात् स्वं परीक्षितम् अनिन्दनीयकर्म्मकारिणञ्च सत्यमतस्य वाक्यानां सद्विभजने निपुणञ्च दर्शयितुं यतस्व।
अपरञ्च प्रदीपं प्रज्वाल्य कोपि पात्रेण नाच्छादयति तथा खट्वाधोपि न स्थापयति, किन्तु दीपाधारोपर्य्येव स्थापयति, तस्मात् प्रवेशका दीप्तिं पश्यन्ति।