Irmãos
A comunhão entre irmãos é marca da igreja verdadeira. A Bíblia nos chama a amar uns aos outros como Cristo nos amou — com perdão, encorajamento e cuidado mútuo.
Amor fraternal
Um novo mandamento vos dou: que vos ameis uns aos outros. Nisto conhecerão que sois meus discípulos — pelo amor entre vós.
यूयं परस्परं प्रीयध्वम् अहं युष्मासु यथा प्रीये यूयमपि परस्परम् तथैव प्रीयध्वं, युष्मान् इमां नवीनाम् आज्ञाम् आदिशामि।
तेनैव यदि परस्परं प्रीयध्वे तर्हि लक्षणेनानेन यूयं मम शिष्या इति सर्व्वे ज्ञातुं शक्ष्यन्ति।
हे प्रियतमाः, वयं परस्परं प्रेम करवाम, यतः प्रेम ईश्वरात् जायते, अपरं यः कश्चित् प्रेम करोति स ईश्वरात् जात ईश्वरं वेत्ति च।
ईश्वरे ऽहं प्रीय इत्युक्त्वा यः कश्चित् स्वभ्रातरं द्वेष्टि सो ऽनृतवादी। स यं दृष्टवान् तस्मिन् स्वभ्रातरि यदि न प्रीयते तर्हि यम् ईश्वरं न दृष्टवान् कथं तस्मिन् प्रेम कर्त्तुं शक्नुयात्?
स्वभ्रातरि यः प्रीयते स एव ज्योतिषि वर्त्तते विघ्नजनकं किमपि तस्मिन् न विद्यते।
यीशुरभिषिक्तस्त्रातेति यः कश्चिद् विश्वासिति स ईश्वरात् जातः; अपरं यः कश्चित् जनयितरि प्रीयते स तस्मात् जाते जने ऽपि प्रीयते।
यूयम् आत्मना सत्यमतस्याज्ञाग्रहणद्वारा निष्कपटाय भ्रातृप्रेम्ने पावितमनसो भूत्वा निर्म्मलान्तःकरणैः परस्परं गाढं प्रेम कुरुत।
Comunhão e edificação
Não abandoneis a congregação. Encorajem-se mutuamente, cantem juntos e instruam-se na Palavra de Cristo.
अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।
ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।
अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।
Perdão e reconciliação
Se o teu irmão pecar contra ti, vai e repreende-o a sós. O perdão e a reconciliação preservam a unidade do corpo de Cristo.
यद्यपि तव भ्राता त्वयि किमप्यपराध्यति, तर्हि गत्वा युवयोर्द्वयोः स्थितयोस्तस्यापराधं तं ज्ञापय। तत्र स यदि तव वाक्यं शृणोति, तर्हि त्वं स्वभ्रातरं प्राप्तवान्,
किन्तु यदि न शृणोति, तर्हि द्वाभ्यां त्रिभि र्वा साक्षीभिः सर्व्वं वाक्यं यथा निश्चितं जायते, तदर्थम् एकं द्वौ वा साक्षिणौ गृहीत्वा याहि।
यद्यपि तव भ्राता त्वयि किमप्यपराध्यति, तर्हि गत्वा युवयोर्द्वयोः स्थितयोस्तस्यापराधं तं ज्ञापय। तत्र स यदि तव वाक्यं शृणोति, तर्हि त्वं स्वभ्रातरं प्राप्तवान्,
किन्तु यदि न शृणोति, तर्हि द्वाभ्यां त्रिभि र्वा साक्षीभिः सर्व्वं वाक्यं यथा निश्चितं जायते, तदर्थम् एकं द्वौ वा साक्षिणौ गृहीत्वा याहि।
तेन स यदि तयो र्वाक्यं न मान्यते, तर्हि समाजं तज्ज्ञापय, किन्तु यदि समाजस्यापि वाक्यं न मान्यते,तर्हि स तव समीपे देवपूजकइव चण्डालइव च भविष्यति।
अहं युष्मान् सत्यं वदामि, युष्माभिः पृथिव्यां यद् बध्यते तत् स्वर्गे भंत्स्यते; मेदिन्यां यत् भोच्यते, स्वर्गेऽपि तत् मोक्ष्यते।
पुनरहं युष्मान् वदामि, मेदिन्यां युष्माकं यदि द्वावेकवाक्यीभूय किञ्चित् प्रार्थयेते, तर्हि मम स्वर्गस्थपित्रा तत् तयोः कृते सम्पन्नं भविष्यति।
यतो यत्र द्वौ त्रयो वा मम नान्नि मिलन्ति, तत्रैवाहं तेषां मध्येऽस्मि।
यदि यूयं स्वान्तःकरणैः स्वस्वसहजानाम् अपराधान् न क्षमध्वे, तर्हि मम स्वर्गस्यः पितापि युष्मान् प्रतीत्थं करिष्यति।
तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।
यः कश्चिद् ईश्वरस्येष्टां क्रियां करोति स एव मम भ्राता भगिनी माता च।
त्वं प्राचीनं न भर्त्सय किन्तु तं पितरमिव यूनश्च भ्रातृनिव
वृद्धाः स्त्रियश्च मातृनिव युवतीश्च पूर्णशुचित्वेन भगिनीरिव विनयस्व।
यदि कश्चित् स्वजातीयान् लोकान् विशेषतः स्वीयपरिजनान् न पालयति तर्हि स विश्वासाद् भ्रष्टो ऽप्यधमश्च भवति।