Irrepreensível
Ser irrepreensível não é ser perfeito — é viver com integridade diante de Deus e dos homens. A Bíblia nos chama a buscar uma vida reta, pura e sem manchas visíveis de hipocrisia.
O padrão divino
Deus é perfeito e chama seus filhos à integridade. A palavra de Deus é purificada e Ele é escudo dos que caminham na retidão.
Buscar a perfeição em Cristo
Todos tropeçamos em muitas coisas, mas o alvo é a maturidade. Cristo é a fonte da salvação eterna para todos os que lhe obedecem.
यतः सर्व्वे वयं बहुविषयेषु स्खलामः, यः कश्चिद् वाक्ये न स्खलति स सिद्धपुरुषः कृत्स्नं वशीकर्त्तुं समर्थश्चास्ति।
क्लेशकाले पितृहीनानां विधवानाञ्च यद् अवेक्षणं संसाराच्च निष्कलङ्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः।
यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।
इत्थं सिद्धीभूय निजाज्ञाग्राहिणां सर्व्वेषाम् अनन्तपरित्राणस्य कारणस्वरूपो ऽभवत्।
ततो यीशुरवदत्, यदि सिद्धो भवितुं वाञ्छसि, तर्हि गत्वा निजसर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, ततः स्वर्गे वित्तं लप्स्यसे; आगच्छ, मत्पश्चाद्वर्त्ती च भव।
Vida íntegra
Que a vossa alegria seja completa! Vivam em harmonia, sejam irrepreensíveis — transformados pela renovação da mente.
युष्मन्निमित्तं मम य आह्लादः स यथा चिरं तिष्ठति युष्माकम् आनन्दश्च यथा पूर्य्यते तदर्थं युष्मभ्यम् एताः कथा अत्रकथम्।
पूर्व्वे मम नाम्ना किमपि नायाचध्वं, याचध्वं ततः प्राप्स्यथ तस्माद् युष्माकं सम्पूर्णानन्दो जनिष्यते।
अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।
हे भ्रातरः, अस्माकं प्रभुयीशुख्रीष्टस्य नाम्ना युष्मान् विनयेऽहं सर्व्वै र्युष्माभिरेकरूपाणि वाक्यानि कथ्यन्तां युष्मन्मध्ये भिन्नसङ्घाता न भवन्तु मनोविचारयोरैक्येन युष्माकं सिद्धत्वं भवतु।
विशेषतः सिद्धिजनकेन प्रेमबन्धनेन बद्धा भवत।
ख्रीष्टाद् यदि किमपि सान्त्वनं कश्चित् प्रेमजातो हर्षः किञ्चिद् आत्मनः समभागित्वं काचिद् अनुकम्पा कृपा वा जायते तर्हि यूयं ममाह्लादं पूरयन्त
एकभावा एकप्रेमाण एकमनस एकचेष्टाश्च भवत।
विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं।
केवलम् आत्महिताय न चेष्टमानाः परहितायापि चेष्टध्वं।
ख्रीष्टस्य यीशो र्यादृशः स्वभावो युष्माकम् अपि तादृशो भवतु।
स ईश्वररूपी सन् स्वकीयाम् ईश्वरतुल्यतां श्लाघास्पदं नामन्यत,
किन्तु स्वं शून्यं कृत्वा दासरूपी बभूव नराकृतिं लेभे च।
इत्थं नरमूर्त्तिम् आश्रित्य नम्रतां स्वीकृत्य मृत्योरर्थतः क्रुशीयमृत्योरेव भोगायाज्ञाग्राही बभूव।
तत्कारणाद् ईश्वरोऽपि तं सर्व्वोन्नतं चकार यच्च नाम सर्व्वेषां नाम्नां श्रेष्ठं तदेव तस्मै ददौ,
ततस्तस्मै यीशुनाम्ने स्वर्गमर्त्यपातालस्थितैः सर्व्वै र्जानुपातः कर्त्तव्यः,
तातस्थेश्वरस्य महिम्ने च यीशुख्रीष्टः प्रभुरिति जिह्वाभिः स्वीकर्त्तव्यं।
अतो हे प्रियतमाः, युष्माभि र्यद्वत् सर्व्वदा क्रियते तद्वत् केवले ममोपस्थितिकाले तन्नहि किन्त्विदानीम् अनुपस्थितेऽपि मयि बहुतरयत्नेनाज्ञां गृहीत्वा भयकम्पाभ्यां स्वस्वपरित्राणं साध्यतां।
यत ईश्वर एव स्वकीयानुरोधाद् युष्मन्मध्ये मनस्कामनां कर्म्मसिद्धिञ्च विदधाति।
यूयं कलहविवादर्विजतम् आचारं कुर्व्वन्तोऽनिन्दनीया अकुटिला
ईश्वरस्य निष्कलङ्काश्च सन्तानाइव वक्रभावानां कुटिलाचारिणाञ्च लोकानां मध्ये तिष्ठत,
यतस्तेषां मध्ये यूयं जीवनवाक्यं धारयन्तो जगतो दीपका इव दीप्यध्वे। युष्माभिस्तथा कृते मम यत्नः परिश्रमो वा न निष्फलो जात इत्यहं ख्रीष्टस्य दिने श्लाघां कर्त्तुं शक्ष्यामि।
युष्माकं विश्वासार्थकाय बलिदानाय सेवनाय च यद्यप्यहं निवेदितव्यो भवेयं तथापि तेनानन्दामि सर्व्वेषां युष्माकम् आनन्दस्यांशी भवामि च।
तद्वद् यूयमप्यानन्दत मदीयानन्दस्यांशिनो भवत च।
युष्माकम् अवस्थाम् अवगत्याहमपि यत् सान्त्वनां प्राप्नुयां तदर्थं तीमथियं त्वरया युष्मत्समीपं प्रेषयिष्यामीति प्रभौ प्रत्याशां कुर्व्वे।
यः सत्यरूपेण युष्माकं हितं चिन्तयति तादृश एकभावस्तस्मादन्यः कोऽपि मम सन्निधौ नास्ति।
यतोऽपरे सर्व्वे यीशोः ख्रीष्टस्य विषयान् न चिन्तयन्त आत्मविषयान् चिन्तयन्ति।
किन्तु तस्य परीक्षितत्वं युष्माभि र्ज्ञायते यतः पुत्रो यादृक् पितुः सहकारी भवति तथैव सुसंवादस्य परिचर्य्यायां स मम सहकारी जातः।
अतएव मम भाविदशां ज्ञात्वा तत्क्षणात् तमेव प्रेषयितुं प्रत्याशां कुर्व्वे
स्वयम् अहमपि तूर्णं युष्मत्समीपं गमिष्यामीत्याशां प्रभुना कुर्व्वे।
अपरं य इपाफ्रदीतो मम भ्राता कर्म्मयुद्धाभ्यां मम सहायश्च युष्माकं दूतो मदीयोपकाराय प्रतिनिधिश्चास्ति युष्मत्समीपे तस्य प्रेषणम् आवश्यकम् अमन्ये।
यतः स युष्मान् सर्व्वान् अकाङ्क्षत युष्माभिस्तस्य रोगस्य वार्त्ताश्रावीति बुद्ध्वा पर्य्यशोचच्च।
स पीडया मृतकल्पोऽभवदिति सत्यं किन्त्वीश्वरस्तं दयितवान् मम च दुःखात् परं पुनर्दुःखं यन्न भवेत् तदर्थं केवलं तं न दयित्वा मामपि दयितवान्।
अतएव यूयं तं विलोक्य यत् पुनरानन्देत ममापि दुःखस्य ह्रासो यद् भवेत् तदर्थम् अहं त्वरया तम् अप्रेषयं।
अतो यूयं प्रभोः कृते सम्पूर्णेनानन्देन तं गृह्लीत तादृशान् लोकांश्चादरणीयान् मन्यध्वं।
यतो मम सेवने युष्माकं त्रुटिं पूरयितुं स प्राणान् पणीकृत्य ख्रीष्टस्य कार्य्यार्थं मृतप्रायेऽभवत्।
अपरं कमपि प्रत्यनिष्टस्य फलम् अनिष्टं केनापि यन्न क्रियेत तदर्थं सावधाना भवत, किन्तु परस्परं सर्व्वान् मानवांश्च प्रति नित्यं हिताचारिणो भवत।