Juízo
O juízo de Deus é manifestação de sua justiça e soberania. Ele julga o mundo, julga as nações e julga cada coração com perfeita equidade e misericórdia.
O juízo de Deus
Deus é juiz justo que prova os corações. Seu juízo é verdadeiro e alcança toda obra, secreta ou pública.
वस्तुतस्तु पिता यथा प्रमितान् उत्थाप्य सजिवान् करोति तद्वत् पुत्रोपि यं यं इच्छति तं तं सजीवं करोति।
सर्व्वे पितरं यथा सत्कुर्व्वन्ति तथा पुत्रमपि सत्कारयितुं पिता स्वयं कस्यापि विचारमकृत्वा सर्व्वविचाराणां भारं पुत्रे समर्पितवान्।
यः पुत्रं सत् करोति स तस्य प्रेरकमपि सत् करोति।
युष्मानाहं यथार्थतरं वदामि यो जनो मम वाक्यं श्रुत्वा मत्प्रेरके विश्वसिति सोनन्तायुः प्राप्नोति कदापि दण्डबाजनं न भवति निधनादुत्थाय परमायुः प्राप्नोति।
अहं युष्मानतियथार्थं वदामि यदा मृता ईश्वरपुत्रस्य निनादं श्रोष्यन्ति ये च श्रोष्यन्ति ते सजीवा भविष्यन्ति समय एतादृश आयाति वरम् इदानीमप्युपतिष्ठति।
पिता यथा स्वयञ्जीवी तथा पुत्राय स्वयञ्जीवित्वाधिकारं दत्तवान्।
स मनुष्यपुत्रः एतस्मात् कारणात् पिता दण्डकरणाधिकारमपि तस्मिन् समर्पितवान्।
एतदर्थे यूयम् आश्चर्य्यं न मन्यध्वं यतो यस्मिन् समये तस्य निनादं श्रुत्वा श्मशानस्थाः सर्व्वे बहिरागमिष्यन्ति समय एतादृश उपस्थास्यति।
तस्माद् ये सत्कर्म्माणि कृतवन्तस्त उत्थाय आयुः प्राप्स्यन्ति ये च कुकर्माणि कृतवन्तस्त उत्थाय दण्डं प्राप्स्यन्ति।
अहं स्वयं किमपि कर्त्तुं न शक्नोमि यथा शुणोमि तथा विचारयामि मम विचारञ्च न्याय्यः यतोहं स्वीयाभीष्टं नेहित्वा मत्प्रेरयितुः पितुरिष्टम् ईहे।
यदि स्वस्मिन् स्वयं साक्ष्यं ददामि तर्हि तत्साक्ष्यम् आग्राह्यं भवति ;
तथाप्यहं यथार्थं कथयामि मम गमनं युष्माकं हितार्थमेव, यतो हेतो र्गमने न कृते सहायो युष्माकं समीपं नागमिष्यति किन्तु यदि गच्छामि तर्हि युष्माकं समीपे तं प्रेषयिष्यामि।
ततः स आगत्य पापपुण्यदण्डेषु जगतो लोकानां प्रबोधं जनयिष्यति।
ते मयि न विश्वसन्ति तस्माद्धेतोः पापप्रबोधं जनयिष्यति।
तदा यीशुः प्रत्यवादीत्, मदर्थं शब्दोयं नाभूत् युष्मदर्थमेवाभूत्।
अधुना जगतोस्य विचार: सम्पत्स्यते, अधुनास्य जगत: पती राज्यात् च्योष्यति।
यद्यई पृथिव्या ऊर्द्व्वे प्रोत्थापितोस्मि तर्हि सर्व्वान् मानवान् स्वसमीपम् आकर्षिष्यामि।
तदा हे प्रभो विश्वसिमीत्युक्त्वा स तं प्रणामत्।
पश्चाद् यीशुः कथितवान् नयनहीना नयनानि प्राप्नुवन्ति नयनवन्तश्चान्धा भवन्तीत्यभिप्रायेण जगदाहम् आगच्छम्।
Prestando contas
Cada um prestará contas de si mesmo a Deus. O juízo começa pela casa de Deus e depois alcança os que não obedecem ao evangelho.
यो जनोऽदृढविश्वासस्तं युष्माकं सङ्गिनं कुरुत किन्तु सन्देहविचारार्थं नहि।
यतो निषिद्धं किमपि खाद्यद्रव्यं नास्ति, कस्यचिज्जनस्य प्रत्यय एतादृशो विद्यते किन्त्वदृढविश्वासः कश्चिदपरो जनः केवलं शाकं भुङ्क्तं।
तर्हि यो जनः साधारणं द्रव्यं भुङ्क्ते स विशेषद्रव्यभोक्तारं नावजानीयात् तथा विशेषद्रव्यभोक्तापि साधारणद्रव्यभोक्तारं दोषिणं न कुर्य्यात्, यस्माद् ईश्वरस्तम् अगृह्लात्।
हे परदासस्य दूषयितस्त्वं कः? निजप्रभोः समीपे तेन पदस्थेन पदच्युतेन वा भवितव्यं स च पदस्थ एव भविष्यति यत ईश्वरस्तं पदस्थं कर्त्तुं शक्नोति।
अतएव ईश्वरसमीपेऽस्माकम् एकैकजनेन निजा कथा कथयितव्या।
इत्थं सति वयम् अद्यारभ्य परस्परं न दूषयन्तः स्वभ्रातु र्विघ्नो व्याघातो वा यन्न जायेत तादृशीमीहां कुर्म्महे।
किमपि वस्तु स्वभावतो नाशुचि भवतीत्यहं जाने तथा प्रभुना यीशुख्रीष्टेनापि निश्चितं जाने, किन्तु यो जनो यद् द्रव्यम् अपवित्रं जानीते तस्य कृते तद् अपवित्रम् आस्ते।
यतो विचारस्यारम्भसमये ईश्वरस्य मन्दिरे युज्यते यदि चास्मत्स्वारभते तर्हीश्वरीयसुसंवादाग्राहिणां शेषदशा का भविष्यति?
अत उपयुक्तसमयात् पूर्व्वम् अर्थतः प्रभोरागमनात् पूर्व्वं युष्माभि र्विचारो न क्रियतां। प्रभुरागत्य तिमिरेण प्रच्छन्नानि सर्व्वाणि दीपयिष्यति मनसां मन्त्रणाश्च प्रकाशयिष्यति तस्मिन् समय ईश्वराद् एकैकस्य प्रशंसा भविष्यति।
यतो यादृशेन दोषेण यूयं परान् दोषिणः कुरुथ, तादृशेन दोषेण यूयमपि दोषीकृता भविष्यथ, अन्यञ्च येन परिमाणेन युष्माभिः परिमीयते, तेनैव परिमाणेन युष्मत्कृते परिमायिष्यते।
अपरञ्च निजनयने या नासा विद्यते, ताम् अनालोच्य तव सहजस्य लोचने यत् तृणम् आस्ते, तदेव कुतो वीक्षसे?
तव निजलोचने नासायां विद्यमानायां, हे भ्रातः, तव नयनात् तृणं बहिष्यर्तुं अनुजानीहि, कथामेतां निजसहजाय कथं कथयितुं शक्नोषि?
Justiça e redenção
O juízo de Deus é também redenção. Ele livrou Israel do Egito com juízos e salva os arrependidos pela cruz de Cristo.
ततः परं स्वर्गस्थानां महाजनताया महाशब्दो ऽयं मया श्रूतः, ब्रूत परेश्वरं धन्यम् अस्मदीयो य ईश्वरः। तस्याभवत् परित्राणां प्रभावश्च पराक्रमः।
विचाराज्ञाश्च तस्यैव सत्या न्याय्या भवन्ति च। या स्ववेश्याक्रियाभिश्च व्यकरोत् कृत्स्नमेदिनीं। तां स दण्डितवान् वेश्यां तस्याश्च करतस्तथा। शोणितस्य स्वदासानां संशोधं स गृहीतवान्॥
पुनरपि तैरिदमुक्तं यथा, ब्रूत परेश्वरं धन्यं यन्नित्यं नित्यमेव च। तस्या दाहस्य धूमो ऽसौ दिशमूर्द्ध्वमुदेष्यति॥