Legalidades
A Bíblia reconhece a necessidade de leis e governo civil. Os cristãos são chamados a obedecer às autoridades estabelecidas por Deus, enquanto mantêm a lealdade suprema a Cristo.
Submissão às autoridades
Toda autoridade é instituída por Deus. O cristão é chamado a respeitar as leis, pagar tributos e honrar quem governa.
युष्माकम् एकैकजनः शासनपदस्य निघ्नो भवतु यतो यानि शासनपदानि सन्ति तानि सर्व्वाणीश्वरेण स्थापितानि; ईश्वरं विना पदस्थापनं न भवति।
इति हेतोः शासनपदस्य यत् प्रातिकूल्यं तद् ईश्वरीयनिरूपणस्य प्रातिकूल्यमेव; अपरं ये प्रातिकूल्यम् आचरन्ति ते स्वेषां समुचितं दण्डं स्वयमेव घटयन्ते।
शास्ता सदाचारिणां भयप्रदो नहि दुराचारिणामेव भयप्रदो भवति; त्वं किं तस्मान् निर्भयो भवितुम् इच्छसि? तर्हि सत्कर्म्माचर, तस्माद् यशो लप्स्यसे,
यतस्तव सदाचरणाय स ईश्वरस्य भृत्योऽस्ति। किन्तु यदि कुकर्म्माचरसि तर्हि त्वं शङ्कस्व यतः स निरर्थकं खङ्गं न धारयति; कुकर्म्माचारिणं समुचितं दण्डयितुम् स ईश्वरस्य दण्डदभृत्य एव।
अतएव केवलदण्डभयान्नहि किन्तु सदसद्बोधादपि तस्य वश्येन भवितव्यं।
एतस्माद् युष्माकं राजकरदानमप्युचितं यस्माद् ये करं गृह्लन्ति त ईश्वरस्य किङ्करा भूत्वा सततम् एतस्मिन् कर्म्मणि निविष्टास्तिष्ठन्ति।
अस्मात् करग्राहिणे करं दत्त, तथा शुल्कग्राहिणे शुल्कं दत्त, अपरं यस्माद् भेतव्यं तस्माद् बिभीत, यश्च समादरणीयस्तं समाद्रियध्वम्; इत्थं यस्य यत् प्राप्यं तत् तस्मै दत्त।
युष्माकं परस्परं प्रेम विना ऽन्यत् किमपि देयम् ऋणं न भवतु, यतो यः परस्मिन् प्रेम करोति तेन व्यवस्था सिध्यति।
देवपूजकानां मध्ये युष्माकम् आचार एवम् उत्तमो भवतु यथा ते युष्मान् दुष्कर्म्मकारिलोकानिव पुन र्न निन्दन्तः कृपादृष्टिदिने स्वचक्षुर्गोचरीयसत्क्रियाभ्य ईश्वरस्य प्रशंसां कुर्य्युः।
ततो हेतो र्यूयं प्रभोरनुरोधात् मानवसृष्टानां कर्तृत्वपदानां वशीभवत विशेषतो भूपालस्य यतः स श्रेष्ठः,
देशाध्यक्षाणाञ्च यतस्ते दुष्कर्म्मकारिणां दण्डदानार्थं सत्कर्म्मकारिणां प्रशंसार्थञ्च तेन प्रेरिताः।
अतः कैसरभूपाय करोऽस्माकं दातव्यो न वा? अत्र भवता किं बुध्यते? तद् अस्मान् वदतु।
ततो यीशुस्तेषां खलतां विज्ञाय कथितवान्, रे कपटिनः युयं कुतो मां परिक्षध्वे?
तत्करदानस्य मुद्रां मां दर्शयत। तदानीं तैस्तस्य समीपं मुद्राचतुर्थभाग आनीते
स तान् पप्रच्छ, अत्र कस्येयं मूर्त्ति र्नाम चास्ते? ते जगदुः, कैसरभूपस्य।
ततः स उक्तवान, कैसरस्य यत् तत् कैसराय दत्त, ईश्वरस्य यत् तद् ईश्वराय दत्त।
Obrigações legais
Jesus cumpriu obrigações legais, pagou impostos e orientou seus seguidores a obedecer à lei sem comprometer a fé.
तदनन्तरं तेषु कफर्नाहूम्नगरमागतेषु करसंग्राहिणः पितरान्तिकमागत्य पप्रच्छुः, युष्माकं गुरुः किं मन्दिरार्थं करं न ददाति? ततः पितरः कथितवान् ददाति।
ततस्तस्मिन् गृहमध्यमागते तस्य कथाकथनात् पूर्व्वमेव यीशुरुवाच, हे शिमोन्, मेदिन्या राजानः स्वस्वापत्येभ्यः किं विदेशिभ्यः केभ्यः करं गृह्लन्ति? अत्र त्वं किं बुध्यसे? ततः पितर उक्तवान्, विदेशिभ्यः।
तदा यीशुरुक्तवान्, तर्हि सन्ताना मुक्ताः सन्ति।
तथापि यथास्माभिस्तेषामन्तरायो न जन्यते, तत्कृते जलधेस्तीरं गत्वा वडिशं क्षिप, तेनादौ यो मीन उत्थास्यति, तं घृत्वा तन्मुखे मोचिते तोलकैकं रूप्यं प्राप्स्यसि, तद् गृहीत्वा तव मम च कृते तेभ्यो देहि।
अन्यञ्च यावत् विवादिना सार्द्धं वर्त्मनि तिष्ठसि, तावत् तेन सार्द्धं मेलनं कुरु; नो चेत् विवादी विचारयितुः समीपे त्वां समर्पयति विचारयिता च रक्षिणः सन्निधौ समर्पयति तदा त्वं कारायां बध्येथाः।
तर्हि त्वामहं तथ्थं ब्रवीमि, शेषकपर्दकेऽपि न परिशोधिते तस्मात् स्थानात् कदापि बहिरागन्तुं न शक्ष्यसि।
यूयं मन्नामहेतोः शास्तृणां राज्ञाञ्च समक्षं तानन्यदेशिनश्चाधि साक्षित्वार्थमानेष्यध्वे।
किन्त्वित्थं समर्पिता यूयं कथं किमुत्तरं वक्ष्यथ तत्र मा चिन्तयत, यतस्तदा युष्माभि र्यद् वक्तव्यं तत् तद्दण्डे युष्मन्मनः सु समुपस्थास्यति।
अपरञ्च तस्मिन् काले राज्यस्य सर्व्वेषां लोकानां नामानि लेखयितुम् अगस्तकैसर आज्ञापयामास।
तदनुसारेण कुरीणियनामनि सुरियादेशस्य शासके सति नामलेखनं प्रारेभे।
अतो हेतो र्नाम लेखितुं सर्व्वे जनाः स्वीयं स्वीयं नगरं जग्मुः।
तदानीं यूषफ् नाम लेखितुं वाग्दत्तया स्वभार्य्यया गर्ब्भवत्या मरियमा सह स्वयं दायूदः सजातिवंश इति कारणाद् गालील्प्रदेशस्य नासरत्नगराद्
यिहूदाप्रदेशस्य बैत्लेहमाख्यं दायूद्नगरं जगाम।
Perspectiva divina
As nações são como uma gota no balde diante de Deus. Ele abre portas que nenhuma lei pode fechar.
यस्माद् अत्र कार्य्यसाधनार्थं ममान्तिके बृहद् द्वारं मुक्तं बहवो विपक्षा अपि विद्यन्ते।
१॰ ततः पीलात् कथितवान त्वं किं मया सार्द्धं न संलपिष्यसि ? त्वां क्रुशे वेधितुं वा मोचयितुं शक्ति र्ममास्ते इति किं त्वं न जानासि ? तदा यीशुः प्रत्यवदद् ईश्वरेणादŸां ममोपरि तव किमप्यधिपतित्वं न विद्यते, तथापि यो जनो मां तव हस्ते समार्पयत् तस्य महापातकं जातम्।
तदा यीशुः प्रत्यवदद् ईश्वरेणादत्तं ममोपरि तव किमप्यधिपतित्वं न विद्यते, तथापि यो जनो मां तव हस्ते समार्पयत् तस्य महापातकं जातम्।
Este artigo te tocou? Faça uma oração!
+581 estão orando agora.
Junte-se à corrente de oração.