Frutos do Espírito
Os frutos do Espírito são evidências visíveis da presença de Deus na vida do crente. Amor, alegria, paz, paciência — são marcas que diferenciam os filhos de Deus no mundo.
O fruto do Espírito
O fruto do Espírito é amor, alegria, paz, paciência, amabilidade, bondade, fidelidade, mansidão e domínio próprio. Contra estas coisas não há lei.
किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा
परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।
पूर्व्वं यूयम् अन्धकारस्वरूपा आध्वं किन्त्विदानीं प्रभुना दीप्तिस्वरूपा भवथ तस्माद् दीप्तेः सन्ताना इव समाचरत।
दीप्ते र्यत् फलं तत् सर्व्वविधहितैषितायां धर्म्मे सत्यालापे च प्रकाशते।
प्रभवे यद् रोचते तत् परीक्षध्वं।
किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।
शान्त्याचारिभिः शान्त्या धर्म्मफलं रोप्यते।
हे मम भ्रातृगण, ईश्वरनिमित्तं यदस्माकं फलं जायते तदर्थं श्मशानाद् उत्थापितेन पुरुषेण सह युष्माकं विवाहो यद् भवेत् तदर्थं ख्रीष्टस्य शरीरेण यूयं व्यवस्थां प्रति मृतवन्तः।
यतोऽस्माकं शारीरिकाचरणसमये मरणनिमित्तं फलम् उत्पादयितुं व्यवस्थया दूषितः पापाभिलाषोऽस्माकम् अङ्गेषु जीवन् आसीत्।
किन्तु तदा यस्या व्यवस्थाया वशे आस्महि साम्प्रतं तां प्रति मृतत्वाद् वयं तस्या अधीनत्वात् मुक्ता इति हेतोरीश्वरोऽस्माभिः पुरातनलिखितानुसारात् न सेवितव्यः किन्तु नवीनस्वभावेनैव सेवितव्यः
तर्हि यानि कर्म्माणि यूयम् इदानीं लज्जाजनकानि बुध्यध्वे पूर्व्वं तै र्युष्माकं को लाभ आसीत्? तेषां कर्म्मणां फलं मरणमेव।
किन्तु साम्प्रतं यूयं पापसेवातो मुक्ताः सन्त ईश्वरस्य भृत्याऽभवत तस्माद् युष्माकं पवित्रत्वरूपं लभ्यम् अनन्तजीवनरूपञ्च फलम् आस्ते।
Permanecer em Cristo
Quem permanece em Cristo dá muito fruto. Toda árvore boa produz bons frutos — e é pelo fruto que se conhece a árvore.
अतः कारणात् मयि तिष्ठत तेनाहमपि युष्मासु तिष्ठामि, यतो हेतो र्द्राक्षालतायाम् असंलग्ना शाखा यथा फलवती भवितुं न शक्नोति तथा यूयमपि मय्यतिष्ठन्तः फलवन्तो भवितुं न शक्नुथ।
अहं द्राक्षालतास्वरूपो यूयञ्च शाखास्वरूपोः; यो जनो मयि तिष्ठति यत्र चाहं तिष्ठामि, स प्रचूरफलैः फलवान् भवति, किन्तु मां विना यूयं किमपि कर्त्तुं न शक्नुथ।
यदि यूयं प्रचूरफलवन्तो भवथ तर्हि तद्वारा मम पितु र्महिमा प्रकाशिष्यते तथा यूयं मम शिष्या इति परिक्षायिष्यध्वे।
अन्यञ्च उत्तमस्तरुः कदापि फलमनुत्तमं न फलति, अनुत्तमतरुश्च फलमुत्तमं न फलति कारणादतः फलैस्तरवो ज्ञायन्ते।
कण्टकिपादपात् कोपि उडुम्बरफलानि न पातयति तथा शृगालकोलिवृक्षादपि कोपि द्राक्षाफलं न पातयति।
तद्वत् साधुलोकोऽन्तःकरणरूपात् सुभाण्डागाराद् उत्तमानि द्रव्याणि बहिः करोति, दुष्टो लोकश्चान्तःकरणरूपात् कुभाण्डागारात् कुत्सितानि द्रव्याणि निर्गमयति यतोऽन्तःकरणानां पूर्णभावानुरूपाणि वचांसि मुखान्निर्गच्छन्ति।
मनःपरावर्त्तनस्य समुचितं फलं फलत।
Semear e colher
Quem semeia na justiça colherá fruto de vida. Os frutos do Espírito são a colheita de uma vida plantada no Senhor.
केवलः स इति नहि किन्तु प्रथमजातफलस्वरूपम् आत्मानं प्राप्ता वयमपि दत्तकपुत्रत्वपदप्राप्तिम् अर्थात् शरीरस्य मुक्तिं प्रतीक्षमाणास्तद्वद् अन्तरार्त्तरावं कुर्म्मः।