Marido e mulher
O casamento é aliança sagrada entre marido e mulher, instituída por Deus desde o Éden. A Bíblia define papéis complementares fundados em amor, respeito e fidelidade mútua.
Instituição divina
Deus criou homem e mulher e os uniu em uma só carne. O casamento é projeto divino que reflete o amor de Cristo pela Igreja.
स प्रत्युवाच, प्रथमम् ईश्वरो नरत्वेन नारीत्वेन च मनुजान् ससर्ज, तस्मात् कथितवान्,
मानुषः स्वपितरौ परित्यज्य स्वपत्न्याम् आसक्ष्यते, तौ द्वौ जनावेकाङ्गौ भविष्यतः, किमेतद् युष्माभि र्न पठितम्?
अतस्तौ पुन र्न द्वौ तयोरेकाङ्गत्वं जातं, ईश्वरेण यच्च समयुज्यत, मनुजो न तद् भिन्द्यात्।
Papéis no casamento
O marido ama e a mulher respeita. Ambos se submetem voluntariamente a Deus e um ao outro, em parceria e unidade.
अपरञ्च हे पुरुषाः, यूयं ख्रीष्ट इव स्वस्वयोषित्सु प्रीयध्वं।
स ख्रीष्टोऽपि समितौ प्रीतवान् तस्याः कृते च स्वप्राणान् त्यक्तवान् यतः स वाक्ये जलमज्जनेन तां परिष्कृत्य पावयितुम्
अपरं तिलकवल्यादिविहीनां पवित्रां निष्कलङ्काञ्च तां समितिं तेजस्विनीं कृत्वा स्वहस्ते समर्पयितुञ्चाभिलषितवान्।
तस्मात् स्वतनुवत् स्वयोषिति प्रेमकरणं पुरुषस्योचितं, येन स्वयोषिति प्रेम क्रियते तेनात्मप्रेम क्रियते।
कोऽपि कदापि न स्वकीयां तनुम् ऋतीयितवान् किन्तु सर्व्वे तां विभ्रति पुष्णन्ति च। ख्रीष्टोऽपि समितिं प्रति तदेव करोति,
हे योषितः, यूयं यथा प्रभोस्तथा स्वस्वस्वामिनो वशङ्गता भवत।
यतः ख्रीष्टो यद्वत् समिते र्मूर्द्धा शरीरस्य त्राता च भवति तद्वत् स्वामी योषितो मूर्द्धा।
अतः समिति र्यद्वत् ख्रीष्टस्य वशीभूता तद्वद् योषिद्भिरपि स्वस्वस्वामिनो वशता स्वीकर्त्तव्या।
अतएव युष्माकम् एकैको जन आत्मवत् स्वयोषिति प्रीयतां भार्य्यापि स्वामिनं समादर्त्तुं यततां।
हे योषितः, यूयं स्वामिनां वश्या भवत यतस्तदेव प्रभवे रोचते।
हे स्वामिनः, यूयं भार्य्यासु प्रीयध्वं ताः प्रति परुषालापं मा कुरुध्वं।
हे योषितः, यूयमपि निजस्वामिनां वश्या भवत तथा सति यदि केचिद् वाक्ये विश्वासिनो न सन्ति तर्हि
ते विनावाक्यं योषिताम् आचारेणार्थतस्तेषां प्रत्यक्षेण युष्माकं सभयसतीत्वाचारेणाक्रष्टुं शक्ष्यन्ते।
हे पुरुषाः, यूयं ज्ञानतो दुर्ब्बलतरभाजनैरिव योषिद्भिः सहवासं कुरुत, एकस्य जीवनवरस्य सहभागिनीभ्यताभ्यः समादरं वितरत च न चेद् युष्माकं प्रार्थनानां बाधा जनिष्यते।
Fidelidade e união
O casamento é honroso e deve ser preservado com fidelidade. O cordão de três dobras não se rompe facilmente.
Permanecer juntos
O que Deus uniu, o homem não separe. A Bíblia protege o casamento e orienta sobre convivência, perdão e perseverança conjugal.
अपरञ्च युष्माभि र्मां प्रति यत् पत्रमलेखि तस्योत्तरमेतत्, योषितोऽस्पर्शनं मनुजस्य वरं;
किन्तु व्यभिचारभयाद् एकैकस्य पुंसः स्वकीयभार्य्या भवतु तद्वद् एकैकस्या योषितो ऽपि स्वकीयभर्त्ता भवतु।
भार्य्यायै भर्त्रा यद्यद् वितरणीयं तद् वितीर्य्यतां तद्वद् भर्त्रेऽपि भार्य्यया वितरणीयं वितीर्य्यतां।
भार्य्यायाः स्वदेहे स्वत्वं नास्ति भर्त्तुरेव, तद्वद् भर्त्तुरपि स्वदेहे स्वत्वं नास्ति भार्य्याया एव।
उपोषणप्रार्थनयोः सेवनार्थम् एकमन्त्रणानां युष्माकं कियत्कालं यावद् या पृथक्स्थिति र्भवति तदन्यो विच्छेदो युष्मन्मध्ये न भवतु, ततः परम् इन्द्रियाणाम् अधैर्य्यात् शयतान् यद् युष्मान् परीक्षां न नयेत् तदर्थं पुनरेकत्र मिलत।
ये च कृतविवाहास्ते मया नहि प्रभुनैवैतद् आज्ञाप्यन्ते।
भार्य्या भर्त्तृतः पृथक् न भवतु। यदि वा पृथग्भूता स्यात् तर्हि निर्विवाहा तिष्ठतु स्वीयपतिना वा सन्दधातु भर्त्तापि भार्य्यां न त्यजतु।
अविश्वासी जनो यदि वा पृथग् भवति तर्हि पृथग् भवतु; एतेन भ्राता भगिनी वा न निबध्यते तथापि वयमीश्वरेण शान्तये समाहूताः।
हे नारि तव भर्त्तुः परित्राणं त्वत्तो भविष्यति न वेति त्वया किं ज्ञायते? हे नर तव जायायाः परित्राणं त्वत्तेा भविष्यति न वेति त्वया किं ज्ञायते?
यावत्कालं पति र्जीवति तावत्कालम् ऊढा भार्य्या व्यवस्थया तस्मिन् बद्धा तिष्ठति किन्तु यदि पति र्म्रियते तर्हि सा नारी पत्यु र्व्यवस्थातो मुच्यते।