Medo da morte
O medo da morte é universal, mas Cristo o venceu. A Bíblia ensina que para quem crê, a morte perdeu o aguilhão — não é mais motivo de terror, mas porta para a eternidade com Deus.
Cristo venceu a morte
Jesus assumiu carne e sangue para, pela morte, destruir o que tinha o poder da morte e libertar os que viviam em escravidão pelo medo dela.
तेषाम् अपत्यानां रुधिरपललविशिष्टत्वात् सोऽपि तद्वत् तद्विशिष्टोऽभूत् तस्याभिप्रायोऽयं यत् स मृत्युबलाधिकारिणं शयतानं मृत्युना बलहीनं कुर्य्यात्
ये च मृत्युभयाद् यावज्जीवनं दासत्वस्य निघ्ना आसन् तान् उद्धारयेत्।
एतस्मिन् क्षयणीये शरीरे ऽक्षयत्वं गते, एतस्मन् मरणाधीने देहे चामरत्वं गते शास्त्रे लिखितं वचनमिदं सेत्स्यति, यथा, जयेन ग्रस्यते मृत्युः।
मृत्यो ते कण्टकं कुत्र परलोक जयः क्क ते॥
मृत्योः कण्टकं पापमेव पापस्य च बलं व्यवस्था।
ईश्वरश्च धन्यो भवतु यतः सोऽस्माकं प्रभुना यीशुख्रीष्टेनास्मान् जययुक्तान् विधापयति।
ततो यथा पितुः पराक्रमेण श्मशानात् ख्रीष्ट उत्थापितस्तथा वयमपि यत् नूतनजीविन इवाचरामस्तदर्थं मज्जनेन तेन सार्द्धं मृत्युरूपे श्मशाने संस्थापिताः।
अपरं वयं यदि तेन संयुक्ताः सन्तः स इव मरणभागिनो जातास्तर्हि स इवोत्थानभागिनोऽपि भविष्यामः।
A promessa da vida eterna
Quem ouve a Palavra e crê já passou da morte para a vida. O amor perfeito lança fora o medo, até o medo da morte.
युष्मानाहं यथार्थतरं वदामि यो जनो मम वाक्यं श्रुत्वा मत्प्रेरके विश्वसिति सोनन्तायुः प्राप्नोति कदापि दण्डबाजनं न भवति निधनादुत्थाय परमायुः प्राप्नोति।
तदा यीशुः कथितवान् अहमेव उत्थापयिता जीवयिता च यः कश्चन मयि विश्वसिति स मृत्वापि जीविष्यति;
अहं युष्मभ्यम् अतीव यथार्थं कथयामि यो नरो मदीयं वाचं मन्यते स कदाचन निधनं न द्रक्ष्यति।
ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।
प्रेम्नि भीति र्न वर्त्तते किन्तु सिद्धं प्रेम भीतिं निराकरोति यतो भीतिः सयातनास्ति भीतो मानवः प्रेम्नि सिद्धो न जातः।
Não temas
Jesus disse: não temais os que matam o corpo. No vale da sombra da morte, o Senhor está conosco como pastor e protetor.
ये कायं हन्तुं शक्नुवन्ति नात्मानं, तेभ्यो मा भैष्ट; यः कायात्मानौ निरये नाशयितुं, शक्नोति, ततो बिभीत।
तेषां नेत्रेभ्यश्चाश्रूणि सर्व्वाणीश्वरेण प्रमार्क्ष्यन्ते मृत्युरपि पुन र्न भविष्यति शोकविलापक्लेशा अपि पुन र्न भविष्यन्ति, यतः प्रथमानि सर्व्वाणि व्यतीतिनि।
त्वया यो यः क्लेशः सोढव्यस्तस्मात् मा भैषीः पश्य शयतानो युष्माकं परीक्षार्थं कांश्चित् कारायां निक्षेप्स्यति दश दिनानि यावत् क्लेशो युष्मासु वर्त्तिष्यते च। त्वं मृत्युपर्य्यन्तं विश्वास्यो भव तेनाहं जीवनकिरीटं तुभ्यं दास्यामि।
यतः, यः कश्चित् परमेशस्य नाम्ना हि प्रार्थयिष्यते। स एव मनुजो नूनं परित्रातो भविष्यति।
किन्तु लिखितम् आस्ते, यथा, वयं तव निमित्तं स्मो मृत्युवक्त्रेऽखिलं दिनं। बलिर्देयो यथा मेषो वयं गण्यामहे तथा।
अपरं योऽस्मासु प्रीयते तेनैतासु विपत्सु वयं सम्यग् विजयामहे।
यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु
वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।