Misericórdia
A misericórdia de Deus é eterna e inesgotável. Ele se compadece dos que sofrem, perdoa os arrependidos e derrama graça sobre os que não merecem. Grande é a sua fidelidade.
A misericórdia de Deus
Quem é Deus como tu, que perdoa a iniquidade? Ele se deleita em ter misericórdia e não retém a ira para sempre.
Graça e perdão
Onde o pecado abundou, superabundou a graça. Deus convida todos ao arrependimento e promete perdão total aos que confessam.
किन्तु पापकर्म्मणो यादृशो भावस्तादृग् दानकर्म्मणो भावो न भवति यत एकस्य जनस्यापराधेन यदि बहूनां मरणम् अघटत तथापीश्वरानुग्रहस्तदनुग्रहमूलकं दानञ्चैकेन जनेनार्थाद् यीशुना ख्रीष्टेन बहुषु बाहुल्यातिबाहुल्येन फलति।
किन्तु वयं व्यवस्थाया अनायत्ता अनुग्रहस्य चायत्ता अभवाम, इति कारणात् किं पापं करिष्यामः? तन्न भवतु।
किन्तु करुणानिधिरीश्वरो येन महाप्रेम्नास्मान् दयितवान्
तस्य स्वप्रेम्नो बाहुल्याद् अपराधै र्मृतानप्यस्मान् ख्रीष्टेन सह जीवितवान् यतोऽनुग्रहाद् यूयं परित्राणं प्राप्ताः।
ततः स मामुक्तवान् ममानुग्रहस्तव सर्व्वसाधकः, यतो दौर्ब्बल्यात् मम शक्तिः पूर्णतां गच्छतीति। अतः ख्रीष्टस्य शक्ति र्यन्माम् आश्रयति तदर्थं स्वदौर्ब्बल्येन मम श्लाघनं सुखदं।
Misericórdia e compaixão
Misericórdia quero e não sacrifício. Deus nos chama a ser misericordiosos como Ele é, perdoando e acolhendo o próximo.
अतो यूयं यात्वा वचनस्यास्यार्थं शिक्षध्वम्, दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि।यतोऽहं धार्म्मिकान् आह्वातुं नागतोऽस्मि किन्तु मनः परिवर्त्तयितुं पापिन आह्वातुम् आगतोऽस्मि।
तदानीं पितरस्तत्समीपमागत्य कथितवान् हे प्रभो, मम भ्राता मम यद्यपराध्यति, तर्हि तं कतिकृत्वः क्षमिष्ये?
किं सप्तकृत्वः? यीशुस्तं जगाद, त्वां केवलं सप्तकृत्वो यावत् न वदामि, किन्तु सप्तत्या गुणितं सप्तकृत्वो यावत्।
यदि यूयम् अन्येषाम् अपराधान् क्षमध्वे तर्हि युष्माकं स्वर्गस्थपितापि युष्मान् क्षमिष्यते;
Acessar a misericórdia
Cheguemos com confiança ao trono da graça. Ali encontramos misericórdia e graça para socorro no tempo oportuno.
अतएव कृपां ग्रहीतुं प्रयोजनीयोपकारार्थम् अनुग्रहं प्राप्तुञ्च वयम् उत्साहेनानुग्रहसिंहासनस्य समीपं यामः।
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।
ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।
यतो येन युष्माभिः ख्रीष्टे केवलविश्वासः क्रियते तन्नहि किन्तु तस्य कृते क्लेशोऽपि सह्यते तादृशो वरः ख्रीष्टस्यानुरोधाद् युष्माभिः प्रापि,