Motivação
Motivação verdadeira vem de Deus. A Bíblia nos inspira a correr a carreira da fé com perseverança, sabendo que o Senhor fortalece, guia e recompensa os fiéis.
Força do alto
Tudo posso naquele que me fortalece. Deus dá poder aos fracos e renova a força dos cansados — Ele é a fonte de toda motivação.
मम शक्तिदायकेन ख्रीष्टेन सर्व्वमेव मया शक्यं भवति।
यत ईश्वर एव स्वकीयानुरोधाद् युष्मन्मध्ये मनस्कामनां कर्म्मसिद्धिञ्च विदधाति।
Correr para o alvo
Prossigo para o alvo, para o prêmio da soberana vocação de Deus em Cristo Jesus. A corrida da fé exige disciplina e foco.
हे भ्रातरः, मया तद् धारितम् इति न मन्यते किन्त्वेतदैकमात्रं वदामि यानि पश्चात् स्थितानि तानि विस्मृत्याहम् अग्रस्थितान्युद्दिश्य
पूर्णयत्नेन लक्ष्यं प्रति धावन् ख्रीष्टयीशुनोर्द्ध्वात् माम् आह्वयत ईश्वरात् जेतृपणं प्राप्तुं चेष्टे।
पण्यलाभार्थं ये धावन्ति धावतां तेषां सर्व्वेषां केवल एकः पण्यं लभते युष्माभिः किमेतन्न ज्ञायते? अतो यूयं यथा पण्यं लप्स्यध्वे तथैव धावत।
मल्ला अपि सर्व्वभोगे परिमितभोगिनो भवन्ति ते तु म्लानां स्रजं लिप्सन्ते किन्तु वयम् अम्लानां लिप्सामहे।
तस्माद् अहमपि धावामि किन्तु लक्ष्यमनुद्दिश्य धावामि तन्नहि। अहं मल्लइव युध्यामि च किन्तु छायामाघातयन्निव युध्यामि तन्नहि।
इतरान् प्रति सुसंवादं घोषयित्वाहं यत् स्वयमग्राह्यो न भवामि तदर्थं देहम् आहन्मि वशीकुर्व्वे च।
अतो हेतोरेतावत्साक्षिमेघै र्वेष्टिताः सन्तो वयमपि सर्व्वभारम् आशुबाधकं पापञ्च निक्षिप्यास्माकं गमनाय निरूपिते मार्गे धैर्य्येण धावाम।
यश्चास्माकं विश्वासस्याग्रेसरः सिद्धिकर्त्ता चास्ति तं यीशुं वीक्षामहै यतः स स्वसम्मुखस्थितानन्दस्य प्राप्त्यर्थम् अपमानं तुच्छीकृत्य क्रुशस्य यातनां सोढवान् ईश्वरीयसिंहासनस्य दक्षिणपार्श्वे समुपविष्टवांश्च।
यः पापिभिः स्वविरुद्धम् एतादृशं वैपरीत्यं सोढवान् तम् आलोचयत तेन यूयं स्वमनःसु श्रान्ताः क्लान्ताश्च न भविष्यथ।
यच्च कुरुध्वे तत् मानुषमनुद्दिश्य प्रभुम् उद्दिश्य प्रफुल्लमनसा कुरुध्वं,
Propósito e missão
Deus tem planos de esperança para nós. Cada dia é oportunidade de fazer a sua vontade e avançar com confiança na missão.
यथा पुत्रेण पितु र्महिमा प्रकाशते तदर्थं मम नाम प्रोच्य यत् प्रार्थयिष्यध्वे तत् सफलं करिष्यामि।
यदि मम नाम्ना यत् किञ्चिद् याचध्वे तर्हि तदहं साधयिष्यामि।
अतो यूयं प्रयाय सर्व्वदेशीयान् शिष्यान् कृत्वा पितुः पुत्रस्य पवित्रस्यात्मनश्च नाम्ना तानवगाहयत; अहं युष्मान् यद्यदादिशं तदपि पालयितुं तानुपादिशत।
पश्यत, जगदन्तं यावत् सदाहं युष्माभिः साकं तिष्ठामि। इति।
अतएव किं खादिष्यामः? किं परिधास्यामः? एतदर्थं मा चेष्टध्वं मा संदिग्ध्वञ्च।
जगतो देवार्च्चका एतानि सर्व्वाणि चेष्टनते; एषु वस्तुषु युष्माकं प्रयोजनमास्ते इति युष्माकं पिता जानाति।
यतो येन कार्य्यं न क्रियते तेनाहारोऽपि न क्रियतामिति वयं युष्मत्समीप उपस्थितिकालेऽपि युष्मान् आदिशाम।
युष्मन्मध्ये ऽविहिताचारिणः केऽपि जना विद्यन्ते ते च कार्य्यम् अकुर्व्वन्त आलस्यम् आचरन्तीत्यस्माभिः श्रूयते।
तादृशान् लोकान् अस्मतप्रभो र्यीशुख्रीष्टस्य नाम्ना वयम् इदम् आदिशाम आज्ञापयामश्च, ते शान्तभावेन कार्य्यं कुर्व्वन्तः स्वकीयमन्नं भुञ्जतां।
अपरं हे भ्रातरः, यूयं सदाचरणे न क्लाम्यत।