Nascer de novo
Nascer de novo é a porta de entrada para a vida em Deus. Jesus ensinou que sem o novo nascimento espiritual, ninguém pode ver nem entrar no Reino de Deus.
A necessidade do novo nascimento
Jesus declarou a Nicodemos: 'Aquele que não nascer de novo não pode ver o Reino de Deus.' O novo nascimento é pelo Espírito.
तदा यीशुरुत्तरं दत्तवान् तवाहं यथार्थतरं व्याहरामि पुनर्जन्मनि न सति कोपि मानव ईश्वरस्य राज्यं द्रष्टुं न शक्नोति।
तदा यीशुरुत्तरं दत्तवान् तवाहं यथार्थतरं व्याहरामि पुनर्जन्मनि न सति कोपि मानव ईश्वरस्य राज्यं द्रष्टुं न शक्नोति।
ततो निकदीमः प्रत्यवोचत् मनुजो वृद्धो भूत्वा कथं जनिष्यते? स किं पुन र्मातृर्जठरं प्रविश्य जनितुं शक्नोति?
यीशुरवादीद् यथार्थतरम् अहं कथयामि मनुजे तोयात्मभ्यां पुन र्न जाते स ईश्वरस्य राज्यं प्रवेष्टुं न शक्नोति।
मांसाद् यत् जायते तन् मांसमेव तथात्मनो यो जायते स आत्मैव।
युष्माभिः पुन र्जनितव्यं ममैतस्यां कथायाम् आश्चर्यं मा मंस्थाः।
सदागतिर्यां दिशमिच्छति तस्यामेव दिशि वाति, त्वं तस्य स्वनं शुणोषि किन्तु स कुत आयाति कुत्र याति वा किमपि न जानासि तद्वाद् आत्मनः सकाशात् सर्व्वेषां मनुजानां जन्म भवति।
यीशुरवादीद् यथार्थतरम् अहं कथयामि मनुजे तोयात्मभ्यां पुन र्न जाते स ईश्वरस्य राज्यं प्रवेष्टुं न शक्नोति।
मांसाद् यत् जायते तन् मांसमेव तथात्मनो यो जायते स आत्मैव।
युष्माभिः पुन र्जनितव्यं ममैतस्यां कथायाम् आश्चर्यं मा मंस्थाः।
युष्मानहं यथार्थं वच्मि, यः कश्चित् शिशुवद् भूत्वा राज्यमीश्वरस्य न गृह्लीयात् स कदापि तद्राज्यं प्रवेष्टुं न शक्नोति।
तदानीं शिष्या यीशोः समीपमागत्य पृष्टवन्तः स्वर्गराज्ये कः श्रेष्ठः?
ततो यीशुः क्षुद्रमेकं बालकं स्वसमीपमानीय तेषां मध्ये निधाय जगाद,
युष्मानहं सत्यं ब्रवीमि, यूयं मनोविनिमयेन क्षुद्रबालवत् न सन्तः स्वर्गराज्यं प्रवेष्टुं न शक्नुथ।
यः कश्चिद् एतस्य क्षुद्रबालकस्य सममात्मानं नम्रीकरोति, सएव स्वर्गराजये श्रेष्ठः।
Nova criação em Cristo
Quem está em Cristo é nova criação. Morremos e ressuscitamos com Ele para viver em novidade de vida, livres do velho homem.
केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति।
ततो यथा पितुः पराक्रमेण श्मशानात् ख्रीष्ट उत्थापितस्तथा वयमपि यत् नूतनजीविन इवाचरामस्तदर्थं मज्जनेन तेन सार्द्धं मृत्युरूपे श्मशाने संस्थापिताः।
अपरं वयं यदि तेन संयुक्ताः सन्तः स इव मरणभागिनो जातास्तर्हि स इवोत्थानभागिनोऽपि भविष्यामः।
वयं यत् पापस्य दासाः पुन र्न भवामस्तदर्थम् अस्माकं पापरूपशरीरस्य विनाशार्थम् अस्माकं पुरातनपुरुषस्तेन साकं क्रुशेऽहन्यतेति वयं जानीमः।
यो हतः स पापात् मुक्त एव।
ततो यथा पितुः पराक्रमेण श्मशानात् ख्रीष्ट उत्थापितस्तथा वयमपि यत् नूतनजीविन इवाचरामस्तदर्थं मज्जनेन तेन सार्द्धं मृत्युरूपे श्मशाने संस्थापिताः।
तद्वद् यूयमपि स्वान् पापम् उद्दिश्य मृतान् अस्माकं प्रभुणा यीशुख्रीष्टेनेश्वरम् उद्दिश्य जीवन्तो जानीत।
ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।
तस्मात् पूर्व्वकालिकाचारकारी यः पुरातनपुरुषो मायाभिलाषै र्नश्यति तं त्यक्त्वा युष्माभि र्मानसिकभावो नूतनीकर्त्तव्यः,
यो नवपुरुष ईश्वरानुरूपेण पुण्येन सत्यतासहितेन
धार्म्मिकत्वेन च सृष्टः स एव परिधातव्यश्च।
यूयं परस्परं मृषाकथां न वदत यतो यूयं स्वकर्म्मसहितं पुरातनपुरुषं त्यक्तवन्तः
स्वस्रष्टुः प्रतिमूर्त्या तत्त्वज्ञानाय नूतनीकृतं नवीनपुरुषं परिहितवन्तश्च।
तेन च यिहूदिभिन्नजातीययोश्छिन्नत्वगच्छिन्नत्वचो र्म्लेच्छस्कुथीययो र्दासमुक्तयोश्च कोऽपि विशेषो नास्ति किन्तु सर्व्वेषु सर्व्वः ख्रीष्ट एवास्ते।
Filhos de Deus
Nascemos de novo pela Palavra viva de Deus. Quem crê em Jesus recebe o direito de se tornar filho de Deus, nascido do Espírito.
तथापि ये ये तमगृह्लन् अर्थात् तस्य नाम्नि व्यश्वसन् तेभ्य ईश्वरस्य पुत्रा भवितुम् अधिकारम् अददात्।
तेषां जनिः शोणितान्न शारीरिकाभिलाषान्न मानवानामिच्छातो न किन्त्वीश्वरादभवत्।
अस्माकं प्रभो र्यीशुख्रीष्टस्य तात ईश्वरो धन्यः, यतः स स्वकीयबहुकृपातो मृतगणमध्याद् यीशुख्रीष्टस्योत्थानेन जीवनप्रत्याशार्थम् अर्थतो
ऽक्षयनिष्कलङ्काम्लानसम्पत्तिप्राप्त्यर्थम् अस्मान् पुन र्जनयामास। सा सम्पत्तिः स्वर्गे ऽस्माकं कृते सञ्चिता तिष्ठति,
यस्माद् यूयं क्षयणीयवीर्य्यात् नहि किन्त्वक्षयणीयवीर्य्याद् ईश्वरस्य जीवनदायकेन नित्यस्थायिना वाक्येन पुनर्जन्म गृहीतवन्तः।
युष्माभिः परित्राणाय वृद्धिप्राप्त्यर्थं नवजातशिशुभिरिव प्रकृतं वाग्दुग्धं पिपास्यतां।
यतः प्रभु र्मधुर एतस्यास्वादं यूयं प्राप्तवन्तः।
पश्यत वयम् ईश्वरस्य सन्ताना इति नाम्नाख्यामहे, एतेन पितास्मभ्यं कीदृक् महाप्रेम प्रदत्तवान्, किन्तु संसारस्तं नाजानात् तत्कारणादस्मान् अपि न जानाति।
हे प्रियतमाः, इदानीं वयम् ईश्वरस्य सन्ताना आस्महे पश्चात् किं भविष्यामस्तद् अद्याप्यप्रकाशितं किन्तु प्रकाशं गते वयं तस्य सदृशा भविष्यामि इति जानीमः, यतः स यादृशो ऽस्ति तादृशो ऽस्माभिर्दर्शिष्यते।
अनन्तरं समये सम्पूर्णतां गतवति व्यवस्थाधीनानां मोचनार्थम्
अस्माकं पुत्रत्वप्राप्त्यर्थञ्चेश्वरः स्त्रिया जातं व्यवस्थाया अधिनीभूतञ्च स्वपुत्रं प्रेषितवान्।
किन्तु करुणानिधिरीश्वरो येन महाप्रेम्नास्मान् दयितवान्
तस्य स्वप्रेम्नो बाहुल्याद् अपराधै र्मृतानप्यस्मान् ख्रीष्टेन सह जीवितवान् यतोऽनुग्रहाद् यूयं परित्राणं प्राप्ताः।