A nova jerusalém
A Nova Jerusalém é a cidade de Deus que desce do céu, morada eterna dos redimidos. Nela não haverá mar, morte, choro nem dor — Deus habitará com seu povo para sempre.
A cidade celestial
João viu a santa cidade, a Nova Jerusalém, descendo do céu como noiva adornada para o esposo. Ali Deus morará com seu povo.
अपरं स्वर्गाद् अवरोहन्ती पवित्रा नगरी, अर्थतो नवीना यिरूशालमपुरी मया दृष्टा, सा वराय विभूषिता कन्येव सुसज्जितासीत्।
अनन्तरं स्वर्गाद् एष महारवो मया श्रुतः पश्यायं मानवैः सार्द्धम् ईश्वरस्यावासः, स तैः सार्द्धं वत्स्यति ते च तस्य प्रजा भविष्यन्ति, ईश्वरश्च स्वयं तेषाम् ईश्वरो भूत्वा तैः सार्द्धं स्थास्यति।
तेषां नेत्रेभ्यश्चाश्रूणि सर्व्वाणीश्वरेण प्रमार्क्ष्यन्ते मृत्युरपि पुन र्न भविष्यति शोकविलापक्लेशा अपि पुन र्न भविष्यन्ति, यतः प्रथमानि सर्व्वाणि व्यतीतिनि।
ततः स आत्माविष्टं माम् अत्युच्चं महापर्व्वतमेंक नीत्वेश्वरस्य सन्निधितः स्वर्गाद् अवरोहन्तीं यिरूशालमाख्यां पवित्रां नगरीं दर्शितवान्।
सा ईश्वरीयप्रतापविशिष्टा तस्यास्तेजो महार्घरत्नवद् अर्थतः सूर्य्यकान्तमणितेजस्तुल्यं।
तस्याः प्राचीरं बृहद् उच्चञ्च तत्र द्वादश गोपुराणि सन्ति तद्गोपुरोपरि द्वादश स्वर्गदूता विद्यन्ते तत्र च द्वादश नामान्यर्थत इस्रायेलीयानां द्वादशवंशानां नामानि लिखितानि।
पूर्व्वदिशि त्रीणि गोपुराणि उत्तरदिशि त्रीणि गोपुराणि दक्षिणदिषि त्रीणि गोपुराणि पश्चीमदिशि च त्रीणि गोपुराणि सन्ति।
नगर्य्याः प्राचीरस्य द्वादश मूलानि सन्ति तत्र मेषाशावाकस्य द्वादशप्रेरितानां द्वादश नामानि लिखितानि।
तस्या अन्तर एकमपि मन्दिरं मया न दृष्टं सतः सर्व्वशक्तिमान् प्रभुः परमेश्वरो मेषशावकश्च स्वयं तस्य मन्दिरं।
तस्यै नगर्य्यै दीप्तिदानार्थं सूर्य्याचन्द्रमसोः प्रयोजनं नास्ति यत ईश्वरस्य प्रतापस्तां दीपयति मेषशावकश्च तस्या ज्योतिरस्ति।
अनन्तरं स स्फटिकवत् निर्म्मलम् अमृततोयस्य स्रोतो माम् अउर्शयत् तद् ईश्वरस्य मेषशावकस्य च सिंहासनात् निर्गच्छति।
नगर्य्या मार्गमध्ये तस्या नद्याः पार्श्वयोरमृतवृक्षा विद्यन्ते तेषां द्वादशफलानि भवन्ति, एकैको वृक्षः प्रतिमासं स्वफलं फलति तद्वृक्षपत्राणि चान्यजातीयानाम् आरोग्यजनकानि।
अपरं किमपि शापग्रस्तं पुन र्न भविष्यति तस्या मध्य ईश्वरस्य मेषशावकस्य च सिंहासनं स्थास्यति तस्य दासाश्च तं सेविष्यन्ते।
तस्य वदनदर्शनं प्राप्स्यन्ति भालेषु च तस्य नाम लिखितं भविष्यति।
तदानीं रात्रिः पुन र्न भविष्यति यतः प्रभुः परमेश्वरस्तान् दीपयिष्यति ते चानन्तकालं यावद् राजत्वं करिष्यन्ते।
A pátria celestial
Os patriarcas aguardavam uma cidade que tem fundamentos, cujo arquiteto e construtor é Deus. Nosso lar eterno está além desta vida.
किन्तु ते सर्व्वोत्कृष्टम् अर्थतः स्वर्गीयं देशम् आकाङ्क्षन्ति तस्माद् ईश्वरस्तानधि न लज्जमानस्तेषाम् ईश्वर इति नाम गृहीतवान् यतः स तेषां कृते नगरमेकं संस्थापितवान्।
किन्तु सीयोन्पर्व्वतो ऽमरेश्वरस्य नगरं स्वर्गस्थयिरूशालमम् अयुतानि दिव्यदूताः
स्वर्गे लिखितानां प्रथमजातानाम् उत्सवः समितिश्च सर्व्वेषां विचाराधिपतिरीश्वरः सिद्धीकृतधार्म्मिकानाम् आत्मानो
नूतननियमस्य मध्यस्थो यीशुः, अपरं हाबिलो रक्तात् श्रेयः प्रचारकं प्रोक्षणस्य रक्तञ्चैतेषां सन्निधौ यूयम् आगताः।
किन्तु स्वर्गीया यिरूशालम्पुरी पत्नी सर्व्वेषाम् अस्माकं माता चास्ते।
मनोदुःखिनो मा भूत; ईश्वरे विश्वसित मयि च विश्वसित।
मम पितु गृहे बहूनि वासस्थानि सन्ति नो चेत् पूर्व्वं युष्मान् अज्ञापयिष्यं युष्मदर्थं स्थानं सज्जयितुं गच्छामि।
यदि गत्वाहं युष्मन्निमित्तं स्थानं सज्जयामि तर्हि पनरागत्य युष्मान् स्वसमीपं नेष्यामि, ततो यत्राहं तिष्ठामि तत्र यूयमपि स्थास्यथ।
A glória da Nova Jerusalém
Deus habitará no meio do seu povo. Sua presença será a luz da cidade, e o rio da vida fluirá do trono de Deus e do Cordeiro.
पश्य मया शीघ्रम् आगन्तव्यं तव यदस्ति तत् धारय को ऽपि तव किरीटं नापहरतु।
यो जनो जयति तमहं मदीयेश्वरस्य मन्दिरे स्तम्भं कृत्वा स्थापयिस्यामि स पुन र्न निर्गमिष्यति। अपरञ्च तस्मिन् मदीयेश्वरस्य नाम मदीयेश्वरस्य पुर्य्या अपि नाम अर्थतो या नवीना यिरूशानम् पुरी स्वर्गात् मदीयेश्वरस्य समीपाद् अवरोक्ष्यति तस्या नाम ममापि नूतनं नाम लेखिष्यामि।
यदि च कश्चिद् एतद्ग्रन्थस्थभविष्यद्वाक्येभ्यः किमप्यपहरति तर्हीश्वरो ग्रन्थे ऽस्मिन् लिखितात् जीवनवृक्षात् पवित्रनगराच्च तस्यांशमपहरिष्यति।