Pais e filhos
A relação entre pais e filhos é uma das mais preciosas na Bíblia. Deus estabeleceu a família como escola de fé, amor e formação de caráter.
Honrar pai e mãe
Honrar os pais é o primeiro mandamento com promessa. Os filhos são chamados a obedecer, respeitar e cuidar de seus pais.
हे बालकाः, यूयं प्रभुम् उद्दिश्य पित्रोराज्ञाग्राहिणो भवत यतस्तत् न्याय्यं।
त्वं निजपितरं मातरञ्च सम्मन्यस्वेति यो विधिः स प्रतिज्ञायुक्तः प्रथमो विधिः
फलतस्तस्मात् तव कल्याणं देशे च दीर्घकालम् आयु र्भविष्यतीति।
हे बालाः, यूयं सर्व्वविषये पित्रोराज्ञाग्राहिणो भवत यतस्तदेव प्रभोः सन्तोषजनकं।
कस्याश्चिद् विधवाया यदि पुत्राः पौत्रा वा विद्यन्ते तर्हि ते प्रथमतः स्वीयपरिजनान् सेवितुं पित्रोः प्रत्युपकर्त्तुञ्च शिक्षन्तां यतस्तदेवेश्वरस्य साक्षाद् उत्तमं ग्राह्यञ्च कर्म्म।
Instruir os filhos
Os pais devem instruir os filhos no caminho certo. A educação começa cedo, com disciplina amorosa e ensino constante da Palavra.
अपरं हे पितरः, यूयं स्वबालकान् मा रोषयत किन्तु प्रभो र्विनीत्यादेशाभ्यां तान् विनयत।
हे पितरः, युष्माकं सन्ताना यत् कातरा न भवेयुस्तदर्थं तान् प्रति मा रोषयत।
यदि यूयं शास्तिं सहध्वं तर्हीश्वरः पुत्रैरिव युष्माभिः सार्द्धं व्यवहरति यतः पिता यस्मै शास्तिं न ददाति तादृशः पुत्रः कः?
Filhos como bênção
Os filhos são herança do Senhor. A coroa dos velhos são os filhos dos filhos, e a glória dos filhos são seus pais.
पुत्रेण पूपे याचिते तस्मै पाषाणं ददाति वा मत्स्ये याचिते तस्मै सर्पं ददाति
वा अण्डे याचिते तस्मै वृश्चिकं ददाति युष्माकं मध्ये क एतादृशः पितास्ते?
तस्मादेव यूयमभद्रा अपि यदि स्वस्वबालकेभ्य उत्तमानि द्रव्याणि दातुं जानीथ तर्ह्यस्माकं स्वर्गस्थः पिता निजयाचकेभ्यः किं पवित्रम् आत्मानं न दास्यति?
यदि कश्चित् स्वजातीयान् लोकान् विशेषतः स्वीयपरिजनान् न पालयति तर्हि स विश्वासाद् भ्रष्टो ऽप्यधमश्च भवति।