Pão
O pão é símbolo central na Bíblia: do maná no deserto ao pão da vida — Jesus. A Escritura usa o pão para ensinar sobre provisão divina, comunhão e dependência espiritual.
O maná do céu
Deus alimentou Israel no deserto com pão do céu. O maná era diário, fiel e suficiente — retrato da provisão constante de Deus.
O pão da vida
Jesus declarou: 'Eu sou o pão da vida.' Quem vem a Ele nunca terá fome, e quem nele crê jamais terá sede. Ele é o sustento eterno.
तदा यीशुरवदद् अहं युष्मानतियथार्थं वदामि मूसा युष्माभ्यं स्वर्गीयं भक्ष्यं नादात् किन्तु मम पिता युष्माभ्यं स्वर्गीयं परमं भक्ष्यं ददाति।
यः स्वर्गादवरुह्य जगते जीवनं ददाति स ईश्वरदत्तभक्ष्यरूपः।
तदा ते प्रावोचन् हे प्रभो भक्ष्यमिदं नित्यमस्मभ्यं ददातु।
यीशुरवदद् अहमेव जीवनरूपं भक्ष्यं यो जनो मम सन्निधिम् आगच्छति स जातु क्षुधार्त्तो न भविष्यति, तथा यो जनो मां प्रत्येति स जातु तृषार्त्तो न भविष्यति।
अहमेव तज्जीवनभक्ष्यं।
युष्माकं पूर्व्वपुरुषा महाप्रान्तरे मन्नाभक्ष्यं भूक्त्तापि मृताः
किन्तु यद्भक्ष्यं स्वर्गादागच्छत् तद् यदि कश्चिद् भुङ्क्त्ते तर्हि स न म्रियते।
यज्जीवनभक्ष्यं स्वर्गादागच्छत् सोहमेव इदं भक्ष्यं यो जनो भुङ्क्त्ते स नित्यजीवी भविष्यति। पुनश्च जगतो जीवनार्थमहं यत् स्वकीयपिशितं दास्यामि तदेव मया वितरितं भक्ष्यम्।
ततः स प्रत्यब्रवीत्, इत्थं लिखितमास्ते, "मनुजः केवलपूपेन न जीविष्यति, किन्त्वीश्वरस्य वदनाद् यानि यानि वचांसि निःसरन्ति तैरेव जीविष्यति।"
Partilha e comunhão
O partir do pão une o corpo de Cristo. Na Ceia, na generosidade e na partilha, expressamos a comunhão com Deus e uns com os outros.
ततः पूपं गृहीत्वा ईश्वरगुणान् कीर्त्तयित्वा भङ्क्ता तेभ्यो दत्वावदत्, युष्मदर्थं समर्पितं यन्मम वपुस्तदिदं, एतत् कर्म्म मम स्मरणार्थं कुरुध्वं।
यतिवारं युष्माभिरेष पूपो भुज्यते भाजनेनानेन पीयते च ततिवारं प्रभोरागमनं यावत् तस्य मृत्युः प्रकाश्यते।
यद् धन्यवादपात्रम् अस्माभि र्धन्यं गद्यते तत् किं ख्रीष्टस्य शोणितस्य सहभागित्वं नहि? यश्च पूपोऽस्माभि र्भज्यते स किं ख्रीष्टस्य वपुषः सहभागित्वं नहि?
वयं बहवः सन्तोऽप्येकपूपस्वरूपा एकवपुःस्वरूपाश्च भवामः, यतो वयं सर्व्व एकपूपस्य सहभागिनः।
अतएव यूयम ईदृक् प्रार्थयध्वं, हे अस्माकं स्वर्गस्थपितः, तव नाम पूज्यं भवतु।
तव राजत्वं भवतु; तवेच्छा स्वर्गे यथा तथैव मेदिन्यामपि सफला भवतु।
अस्माकं प्रयोजनीयम् आहारम् अद्य देहि।
तदा स तानुवाच यूयमेव तान् भोजयत; ततस्ते जगदु र्वयं गत्वा द्विशतसंख्यकै र्मुद्रापादैः पूपान् क्रीत्वा किं तान् भोजयिष्यामः?
तदा स तान् पृष्ठवान् युष्माकं सन्निधौ कति पूपा आसते? गत्वा पश्यत; ततस्ते दृष्ट्वा तमवदन् पञ्च पूपा द्वौ मत्स्यौ च सन्ति।
तदा स लोकान् शस्पोपरि पंक्तिभिरुपवेशयितुम् आदिष्टवान्,
ततस्ते शतं शतं जनाः पञ्चाशत् पञ्चाशज्जनाश्च पंक्तिभि र्भुवि समुपविविशुः।
अथ स तान् पञ्चपूपान् मत्स्यद्वयञ्च धृत्वा स्वर्गं पश्यन् ईश्वरगुणान् अन्वकीर्त्तयत् तान् पूपान् भंक्त्वा लोकेभ्यः परिवेषयितुं शिष्येभ्यो दत्तवान् द्वा मत्स्यौ च विभज्य सर्व्वेभ्यो दत्तवान्।
ततः सर्व्वे भुक्त्वातृप्यन्।
अनन्तरं शिष्या अवशिष्टैः पूपै र्मत्स्यैश्च पूर्णान् द्वदश डल्लकान् जगृहुः।
Provisão divina
O justo não é desamparado e seus descendentes não mendigam pão. Deus provê com fidelidade o alimento de cada dia.
अनन्तरमन्यपारगमनकाले तस्य शिष्याः पूपमानेतुं विस्मृतवन्तः।
यीशुस्तानवादीत्, यूयं फिरूशिनां सिदूकिनाञ्च किण्वं प्रति सावधानाः सतर्काश्च भवत।
तेन ते परस्परं विविच्य कथयितुमारेभिरे, वयं पूपानानेतुं विस्मृतवन्त एतत्कारणाद् इति कथयति।
किन्तु यीशुस्तद्विज्ञाय तानवोचत्, हे स्तोकविश्वासिनो यूयं पूपानानयनमधि कुतः परस्परमेतद् विविंक्य?
युष्माभिः किमद्यापि न ज्ञायते? पञ्चभिः पूपैः पञ्चसहस्रपुरुषेषु भोजितेषु भक्ष्योच्छिष्टपूर्णान् कति डलकान् समगृह्लीतं;
तथा सप्तभिः पूपैश्चतुःसहस्रपुरुषेषु भेजितेषु कति डलकान् समगृह्लीत, तत् किं युष्माभिर्न स्मर्य्यते?
तस्मात् फिरूशिनां सिदूकिनाञ्च किण्वं प्रति सावधानास्तिष्ठत, कथामिमाम् अहं पूपानधि नाकथयं, एतद् यूयं कुतो न बुध्यध्वे?
तदानीं पूपकिण्वं प्रति सावधानास्तिष्ठतेति नोक्त्वा फिरूशिनां सिदूकिनाञ्च उपदेशं प्रति सावधानास्तिष्ठतेति कथितवान्, इति तैरबोधि।