Reino dos céus
O Reino dos Céus é comparado por Jesus a tesouros, sementes e redes. Através de parábolas, Ele revelou os mistérios de um Reino que já está entre nós, mas que se consumará na eternidade.
O valor incomparável do Reino
O Reino dos Céus é como um tesouro escondido ou uma pérola de grande valor. Quem o encontra, vende tudo para possuí-lo.
अपरञ्च क्षेत्रमध्ये निधिं पश्यन् यो गोपयति, ततः परं सानन्दो गत्वा स्वीयसर्व्वस्वं विक्रीय त्तक्षेत्रं क्रीणाति, स इव स्वर्गराज्यं।
अन्यञ्च यो वणिक् उत्तमां मुक्तां गवेषयन्
महार्घां मुक्तां विलोक्य निजसर्व्वस्वं विक्रीय तां क्रीणाति, स इव स्वर्गराज्यं।
अनन्तरं सोपरामेकां दृष्टान्तकथामुत्थाप्य तेभ्यः कथितवान् कश्चिन्मनुजः सर्षपबीजमेकं नीत्वा स्वक्षेत्र उवाप।
सर्षपबीजं सर्व्वस्माद् बीजात् क्षुद्रमपि सदङ्कुरितं सर्व्वस्मात् शाकात् बृहद् भवति; स तादृशस्तरु र्भवति, यस्य शाखासु नभसः खगा आगत्य निवसन्ति; स्वर्गीयराज्यं तादृशस्य सर्षपैकस्य समम्।
पुनरपि स उपमाकथामेकां तेभ्यः कथयाञ्चकार; काचन योषित् यत् किण्वमादाय द्रोणत्रयमितगोधूमचूर्णानां मध्ये सर्व्वेषां मिश्रीभवनपर्य्यन्तं समाच्छाद्य निधत्तवती, तत्किण्वमिव स्वर्गराज्यं।
Parábolas do Reino
Jesus ensinou sobre o Reino mediante parábolas que revelam seu crescimento, seu juízo e a separação final entre justos e injustos.
अनन्तरं सोपरामेकां दृष्टान्तकथामुपस्थाप्य तेभ्यः कथयामास; स्वर्गीयराज्यं तादृशेन केनचिद् गृहस्थेनोपमीयते, येन स्वीयक्षेत्रे प्रशस्तबीजान्यौप्यन्त।
किन्तु क्षणदायां सकललोकेषु सुप्तेषु तस्य रिपुरागत्य तेषां गोधूमबीजानां मध्ये वन्ययवमबीजान्युप्त्वा वव्राज।
ततो यदा बीजेभ्योऽङ्करा जायमानाः कणिशानि घृतवन्तः; तदा वन्ययवसान्यपि दृश्यमानान्यभवन्।
ततो गृहस्थस्य दासेया आगम्य तस्मै कथयाञ्चक्रुः, हे महेच्छ, भवता किं क्षेत्रे भद्रबीजानि नौप्यन्त? तथात्वे वन्ययवसानि कृत आयन्?
तदानीं तेन ते प्रतिगदिताः, केनचित् रिपुणा कर्म्मदमकारि। दासेयाः कथयामासुः, वयं गत्वा तान्युत्पाय्य क्षिपामो भवतः कीदृशीच्छा जायते?
तेनावादि, नहि, शङ्केऽहं वन्ययवसोत्पाटनकाले युष्माभिस्तैः साकं गोधूमा अप्युत्पाटिष्यन्ते।
अतः श्स्यकर्त्तनकालं यावद् उभयान्यपि सह वर्द्धन्तां, पश्चात् कर्त्तनकाले कर्त्तकान् वक्ष्यामि, यूयमादौ वन्ययवसानि संगृह्य दाहयितुं वीटिका बद्व्वा स्थापयत; किन्तु सर्व्वे गोधूमा युष्माभि र्भाण्डागारं नीत्वा स्थाप्यन्ताम्।
सर्व्वान् मनुजान् विसृज्य यीशौ गृहं प्रविष्टे तच्छिष्या आगत्य यीशवे कथितवन्तः, क्षेत्रस्य वन्ययवसीयदृष्टान्तकथाम् भवान अस्मान् स्पष्टीकृत्य वदतु।
ततः स प्रत्युवाच, येन भद्रबीजान्युप्यन्ते स मनुजपुत्रः,
क्षेत्रं जगत्, भद्रबीजानी राज्यस्य सन्तानाः,
वन्ययवसानि पापात्मनः सन्तानाः। येन रिपुणा तान्युप्तानि स शयतानः, कर्त्तनसमयश्च जगतः शेषः, कर्त्तकाः स्वर्गीयदूताः।
यथा वन्ययवसानि संगृह्य दाह्यन्ते, तथा जगतः शेषे भविष्यति;
अर्थात् मनुजसुतः स्वांयदूतान् प्रेषयिष्यति, तेन ते च तस्य राज्यात् सर्व्वान् विघ्नकारिणोऽधार्म्मिकलोकांश्च संगृह्य
यत्र रोदनं दन्तघर्षणञ्च भवति, तत्राग्निकुण्डे निक्षेप्स्यन्ति।
तदानीं धार्म्मिकलोकाः स्वेषां पितू राज्ये भास्करइव तेजस्विनो भविष्यन्ति। श्रोतुं यस्य श्रुती आसाते, म शृणुयात्।
पुनश्च समुद्रो निक्षिप्तः सर्व्वप्रकारमीनसंग्राह्यानायइव स्वर्गराज्यं।
तस्मिन् आनाये पूर्णे जना यथा रोधस्युत्तोल्य समुपविश्य प्रशस्तमीनान् संग्रह्य भाजनेषु निदधते, कुत्सितान् निक्षिपन्ति;
तथैव जगतः शेषे भविष्यति, फलतः स्वर्गीयदूता आगत्य पुण्यवज्जनानां मध्यात् पापिनः पृथक् कृत्वा वह्निकुण्डे निक्षेप्स्यन्ति,
तत्र रोदनं दन्तै र्दन्तघर्षणञ्च भविष्यतः।
Quem herda o Reino
Os humildes, os pobres de espírito e as crianças são herdeiros do Reino. Mas é difícil para os ricos entrarem nele.
अभिमानहीना जना धन्याः, यतस्ते स्वर्गीयराज्यम् अधिकरिष्यन्ति।
खिद्यमाना मनुजा धन्याः, यस्मात् ते सान्त्वनां प्राप्सन्ति।
नम्रा मानवाश्च धन्याः, यस्मात् ते मेदिनीम् अधिकरिष्यन्ति।
धर्म्माय बुभुक्षिताः तृषार्त्ताश्च मनुजा धन्याः, यस्मात् ते परितर्प्स्यन्ति।
कृपालवो मानवा धन्याः, यस्मात् ते कृपां प्राप्स्यन्ति।
निर्म्मलहृदया मनुजाश्च धन्याः, यस्मात् त ईश्चरं द्रक्ष्यन्ति।
मेलयितारो मानवा धन्याः, यस्मात् त ईश्चरस्य सन्तानत्वेन विख्यास्यन्ति।
धर्म्मकारणात् ताडिता मनुजा धन्या, यस्मात् स्वर्गीयराज्ये तेषामधिकरो विद्यते।
यदा मनुजा मम नामकृते युष्मान् निन्दन्ति ताडयन्ति मृषा नानादुर्व्वाक्यानि वदन्ति च, तदा युयं धन्याः।
तदा आनन्दत, तथा भृशं ह्लादध्वञ्च, यतः स्वर्गे भूयांसि फलानि लप्स्यध्वे; ते युष्माकं पुरातनान् भविष्यद्वादिनोऽपि तादृग् अताडयन्।
तदानीं शिष्या यीशोः समीपमागत्य पृष्टवन्तः स्वर्गराज्ये कः श्रेष्ठः?
ततो यीशुः क्षुद्रमेकं बालकं स्वसमीपमानीय तेषां मध्ये निधाय जगाद,
युष्मानहं सत्यं ब्रवीमि, यूयं मनोविनिमयेन क्षुद्रबालवत् न सन्तः स्वर्गराज्यं प्रवेष्टुं न शक्नुथ।
यः कश्चिद् एतस्य क्षुद्रबालकस्य सममात्मानं नम्रीकरोति, सएव स्वर्गराजये श्रेष्ठः।
किन्तु यीशुरुवाच, शिशवो मदन्तिकम् आगच्छन्तु, तान् मा वारयत, एतादृशां शिशूनामेव स्वर्गराज्यं।
तदा यीशुः स्वशिष्यान् अवदत्, धनिनां स्वर्गराज्यप्रवेशो महादुष्कर इति युष्मानहं तथ्यं वदामि।
पुनरपि युष्मानहं वदामि, धनिनां स्वर्गराज्यप्रवेशात् सूचीछिद्रेण महाङ्गगमनं सुकरं।
इति वाक्यं निशम्य शिष्या अतिचमत्कृत्य कथयामासुः; तर्हि कस्य परित्राणं भवितुं शक्नोति?
तदा स तान् दृष्द्वा कथयामास, तत् मानुषाणामशक्यं भवति, किन्त्वीश्वरस्य सर्व्वं शक्यम्।
हे मम प्रियभ्रातरः, शृणुत, संसारे ये दरिद्रास्तान् ईश्वरो विश्वासेन धनिनः स्वप्रेमकारिभ्यश्च प्रतिश्रुतस्य राज्यस्याधिकारिणः कर्त्तुं किं न वरीतवान्? किन्तु दरिद्रो युष्माभिरवज्ञायते।
Buscar o Reino acima de tudo
Jesus ensinou que devemos buscar primeiro o Reino e sua justiça. Nem todo que diz 'Senhor, Senhor' entrará — só quem faz a vontade do Pai.
ये जना मां प्रभुं वदन्ति, ते सर्व्वे स्वर्गराज्यं प्रवेक्ष्यन्ति तन्न, किन्तु यो मानवो मम स्वर्गस्थस्य पितुरिष्टं कर्म्म करोति स एव प्रवेक्ष्यति।
तस्मात् यो जन एतासाम् आज्ञानाम् अतिक्षुद्राम् एकाज्ञामपी लंघते मनुजांञ्च तथैव शिक्षयति, स स्वर्गीयराज्ये सर्व्वेभ्यः क्षुद्रत्वेन विख्यास्यते, किन्तु यो जनस्तां पालयति, तथैव शिक्षयति च, स स्वर्गीयराज्ये प्रधानत्वेन विख्यास्यते।
अपरं युष्मान् अहं वदामि, अध्यापकफिरूशिमानवानां धर्म्मानुष्ठानात् युष्माकं धर्म्मानुष्ठाने नोत्तमे जाते यूयम् ईश्वरीयराज्यं प्रवेष्टुं न शक्ष्यथ।
अतएव यूयम ईदृक् प्रार्थयध्वं, हे अस्माकं स्वर्गस्थपितः, तव नाम पूज्यं भवतु।
तव राजत्वं भवतु; तवेच्छा स्वर्गे यथा तथैव मेदिन्यामपि सफला भवतु।
तदानों योह्न्नामा मज्जयिता यिहूदीयदेशस्य प्रान्तरम् उपस्थाय प्रचारयन् कथयामास,
मनांसि परावर्त्तयत, स्वर्गीयराजत्वं समीपमागतम्।
अनन्तरं यीशुः सुसंवादं प्रचारयन् एतां कथां कथयितुम् आरेभे, मनांसि परावर्त्तयत, स्वर्गीयराजत्वं सविधमभवत्।
गत्वा गत्वा स्वर्गस्य राजत्वं सविधमभवत्, एतां कथां प्रचारयत।
अन्यच्चाहं युष्मान् वदामि, बहवः पूर्व्वस्याः पश्चिमायाश्च दिश आगत्य इब्राहीमा इस्हाका याकूबा च साकम् मिलित्वा समुपवेक्ष्यन्ति;
अपरं युष्मानहं तथ्यं ब्रवीमि, मज्जयितु र्योहनः श्रेष्ठः कोपि नारीतो नाजायत; तथापि स्वर्गराज्यमध्ये सर्व्वेभ्यो यः क्षुद्रः स योहनः श्रेष्ठः।
अपरञ्च आ योहनोऽद्य यावत् स्वर्गराज्यं बलादाक्रान्तं भवति आक्रमिनश्च जना बलेन तदधिकुर्व्वन्ति।
A herança eterna
O Reino dos Céus é inabalável e eterno. Deus nos chama a fazer firme a nossa vocação e eleição para entrar nesse Reino.
अतएव निश्चलराज्यप्राप्तैरस्माभिः सोऽनुग्रह आलम्बितव्यो येन वयं सादरं सभयञ्च तुष्टिजनकरूपेणेश्वरं सेवितुं शक्नुयाम।
यतोऽस्माकम् ईश्वरः संहारको वह्निः।
तस्माद् हे भ्रातरः, यूयं स्वकीयाह्वानवरणयो र्दृढकरणे बहु यतध्वं, तत् कृत्वा कदाच न स्खलिष्यथ।
यतो ऽनेन प्रकारेणास्माकं प्रभोस्त्रातृ र्यीशुख्रीष्टस्यानन्तराज्यस्य प्रवेशेन यूयं सुकलेन योजयिष्यध्वे।
अपरं सर्व्वस्माद् दुष्कर्म्मतः प्रभु र्माम् उद्धरिष्यति निजस्वर्गीयराज्यं नेतुं मां तारयिष्यति च। तस्य धन्यवादः सदाकालं भूयात्। आमेन्।
हे क्षुद्रमेषव्रज यूयं मा भैष्ट युष्मभ्यं राज्यं दातुं युष्माकं पितुः सम्मतिरस्ति।
वेश्यागाम्यशौचाचारी देवपूजक इव गण्यो लोभी चैतेषां कोषि ख्रीष्टस्य राज्येऽर्थत ईश्वरस्य राज्ये कमप्यधिकारं न प्राप्स्यतीति युष्माभिः सम्यक् ज्ञायतां।