Relacionamentos
Os relacionamentos são centrais na vida cristã. A Bíblia orienta sobre amizade, casamento, família e convivência, sempre tendo o amor como fundamento de toda relação.
Amor e amizade
O amigo ama em todo tempo. A Bíblia valoriza amizades verdadeiras que edificam, fortalecem e desafiam ao crescimento mútuo.
Casamento e família
O casamento é aliança sagrada. O marido deve amar a esposa como Cristo amou a Igreja, e ambos devem cultivar respeito e submissão mútua.
अपरञ्च हे पुरुषाः, यूयं ख्रीष्ट इव स्वस्वयोषित्सु प्रीयध्वं।
स ख्रीष्टोऽपि समितौ प्रीतवान् तस्याः कृते च स्वप्राणान् त्यक्तवान् यतः स वाक्ये जलमज्जनेन तां परिष्कृत्य पावयितुम्
तस्मात् स्वतनुवत् स्वयोषिति प्रेमकरणं पुरुषस्योचितं, येन स्वयोषिति प्रेम क्रियते तेनात्मप्रेम क्रियते।
अतएव युष्माकम् एकैको जन आत्मवत् स्वयोषिति प्रीयतां भार्य्यापि स्वामिनं समादर्त्तुं यततां।
हे योषितः, यूयं यथा प्रभोस्तथा स्वस्वस्वामिनो वशङ्गता भवत।
यतः ख्रीष्टो यद्वत् समिते र्मूर्द्धा शरीरस्य त्राता च भवति तद्वत् स्वामी योषितो मूर्द्धा।
हे योषितः, यूयं स्वामिनां वश्या भवत यतस्तदेव प्रभवे रोचते।
हे स्वामिनः, यूयं भार्य्यासु प्रीयध्वं ताः प्रति परुषालापं मा कुरुध्वं।
किन्तु व्यभिचारभयाद् एकैकस्य पुंसः स्वकीयभार्य्या भवतु तद्वद् एकैकस्या योषितो ऽपि स्वकीयभर्त्ता भवतु।
Convivência saudável
Os relacionamentos florescem quando tratamos os outros como gostaríamos de ser tratados, com amor crescente e caráter maduro.
यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।
निजपितरौ संमन्यस्व, स्वसमीपवासिनि स्ववत् प्रेम कुरु।
परस्परं सर्व्वांश्च प्रति युष्माकं प्रेम युष्मान् प्रति चास्माकं प्रेम प्रभुना वर्द्ध्यतां बहुफलं क्रियताञ्च।
यदि कश्चित् स्वजातीयान् लोकान् विशेषतः स्वीयपरिजनान् न पालयति तर्हि स विश्वासाद् भ्रष्टो ऽप्यधमश्च भवति।
अपरम् अप्रत्ययिभिः सार्द्धं यूयम् एकयुगे बद्धा मा भूत, यस्माद् धर्म्माधर्म्मयोः कः सम्बन्धोऽस्ति? तिमिरेण सर्द्धं प्रभाया वा का तुलनास्ति?
साम्प्रतं कमहम् अनुनयामि? ईश्वरं किंवा मानवान्? अहं किं मानुषेभ्यो रोचितुं यते? यद्यहम् इदानीमपि मानुषेभ्यो रुरुचिषेय तर्हि ख्रीष्टस्य परिचारको न भवामि।
ततो हेतो र्यूयं सम्पूर्णं यत्नं विधाय विश्वासे सौजन्यं सौजन्ये ज्ञानं
ज्ञान आयतेन्द्रियताम् आयतेन्द्रियतायां धैर्य्यं धैर्य्य ईश्वरभक्तिम्
ईश्वरभक्तौ भ्रातृस्नेहे च प्रेम युङ्क्त।