Servir
Servir é o coração do evangelho. Jesus não veio para ser servido, mas para servir. O cristão é chamado a seguir esse exemplo, colocando-se a serviço de Deus e do próximo.
O exemplo de Jesus
Cristo é o modelo supremo de serviço. Ele lavou os pés dos discípulos e deu a própria vida como resgate por muitos.
यतो मनुष्यपुत्रः सेव्यो भवितुं नागतः सेवां कर्त्तां तथानेकेषां परित्राणस्य मूल्यरूपस्वप्राणं दातुञ्चागतः।
इत्थं मनुजपुत्रः सेव्यो भवितुं नहि, किन्तु सेवितुं बहूनां परित्राणमूल्यार्थं स्वप्राणान् दातुञ्चागतः।
किन्तु युष्माकं मध्ये न तथा भवेत्, युष्माकं यः कश्चित् महान् बुभूषति, स युष्मान् सेवेत;
यश्च युष्माकं मध्ये मुख्यो बुभूषति, स युष्माकं दासो भवेत्।
यद्यहं प्रभु र्गुरुश्च सन् युष्माकं पादान् प्रक्षालितवान् तर्हि युष्माकमपि परस्परं पादप्रक्षालनम् उचितम्।
ततः स उपविश्य द्वादशशिष्यान् आहूय बभाषे यः कश्चित् मुख्यो भवितुमिच्छति स सर्व्वेभ्यो गौणः सर्व्वेषां सेवकश्च भवतु।
Servindo ao Senhor
Servir a Deus é um privilégio e uma ordenança. Devemos amá-lo de todo coração e servi-lo com alegria e fidelidade.
तथा कार्य्ये निरालस्या मनसि च सोद्योगाः सन्तः प्रभुं सेवध्वम्।
तर्हि किं मन्यध्वे यः सदातनेनात्मना निष्कलङ्कबलिमिव स्वमेवेश्वराय दत्तवान्, तस्य ख्रीष्टस्य रुधिरेण युष्माकं मनांस्यमरेश्वरस्य सेवायै किं मृत्युजनकेभ्यः कर्म्मभ्यो न पवित्रीकारिष्यन्ते?
Servir ao próximo
A liberdade cristã nos chama a servir uns aos outros pelo amor. Cada dom recebido é para edificação do corpo de Cristo.
हे भ्रातरः, यूयं स्वातन्त्र्यार्थम् आहूता आध्वे किन्तु तत्स्वातन्त्र्यद्वारेण शारीरिकभावो युष्मान् न प्रविशतु। यूयं प्रेम्ना परस्परं परिचर्य्यां कुरुध्वं।
यूयं स्वाधीना इवाचरत तथापि दुष्टताया वेषस्वरूपां स्वाधीनतां धारयन्त इव नहि किन्त्वीश्वरस्य दासा इव।
कश्चिद् यदि मम सेवको भवितुं वाञ्छति तर्हि स मम पश्चाद्गामी भवतु, तस्माद् अहं यत्र तिष्ठामि मम सेवकेापि तत्र स्थास्यति; यो जनो मां सेवते मम पितापि तं सम्मंस्यते।
कोपि मनुजो द्वौ प्रभू सेवितुं न शक्नोति, यस्माद् एकं संमन्य तदन्यं न सम्मन्यते, यद्वा एकत्र मनो निधाय तदन्यम् अवमन्यते; तथा यूयमपीश्वरं लक्ष्मीञ्चेत्युभे सेवितुं न शक्नुथ।
अपरं स्वं स्वम् अङ्गम् अधर्म्मस्यास्त्रं कृत्वा पापसेवायां न समर्पयत, किन्तु श्मशानाद् उत्थितानिव स्वान् ईश्वरे समर्पयत स्वान्यङ्गानि च धर्म्मास्त्रस्वरूपाणीश्वरम् उद्दिश्य समर्पयत।
Fidelidade e recompensa
O servo fiel e sábio será recompensado pelo Senhor. A fidelidade no serviço honra a Deus e produz frutos eternos.
तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव।
अतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति ज्ञात्वा प्रभोः कार्य्ये सदा तत्परा भवत।
तत् सर्व्वं शास्त्रम् ईश्वरस्यात्मना दत्तं शिक्षायै दोषबोधाय शोधनाय धर्म्मविनयाय च फलयूक्तं भवति
तेन चेश्वरस्य लोको निपुणः सर्व्वस्मै सत्कर्म्मणे सुसज्जश्च भवति।