Vida
A vida é um dom precioso de Deus. Desde a concepção até a eternidade, as Escrituras revelam o propósito, o valor e a plenitude da vida que o Senhor nos oferece.
Deus, o autor da vida
O Senhor é quem dá a vida e a sustenta. Cada ser humano foi formado por suas mãos com propósito e intenção divina.
A vida em Cristo
Jesus é o caminho, a verdade e a vida. Nele encontramos sentido, plenitude e a promessa de vida abundante e eterna.
यीशुरकथयद् अहमेव सत्यजीवनरूपपथो मया न गन्ता कोपि पितुः समीपं गन्तुं न शक्नोति।
यो जनस्तेनः स केवलं स्तैन्यबधविनाशान् कर्त्तुमेव समायाति किन्त्वहम् आयु र्दातुम् अर्थात् बाहूल्येन तदेव दातुम् आगच्छम्।
तदा यीशुः कथितवान् अहमेव उत्थापयिता जीवयिता च यः कश्चन मयि विश्वसिति स मृत्वापि जीविष्यति;
यः कश्चन च जीवन् मयि विश्वसिति स कदापि न मरिष्यति, अस्यां कथायां किं विश्वसिषि?
यीशुरवदद् अहमेव जीवनरूपं भक्ष्यं यो जनो मम सन्निधिम् आगच्छति स जातु क्षुधार्त्तो न भविष्यति, तथा यो जनो मां प्रत्येति स जातु तृषार्त्तो न भविष्यति।
यः कश्चिन्मयि विश्वसिति धर्म्मग्रन्थस्य वचनानुसारेण तस्याभ्यन्तरतोऽमृततोयस्य स्रोतांसि निर्गमिष्यन्ति।
ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।
ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।
Vivendo com sabedoria
A Bíblia nos orienta a viver com sabedoria, aproveitando bem o tempo, guardando o coração e buscando a vontade de Deus para cada dia.
अतः सावधाना भवत, अज्ञाना इव माचरत किन्तु ज्ञानिन इव सतर्कम् आचरत।
समयं बहुमूल्यं गणयध्वं यतः काला अभद्राः।
A vida no dia a dia
Cada dia é uma oportunidade de glorificar a Deus. A Escritura nos chama a viver com propósito, confiança e fé prática.
Prioridades e eternidade
Jesus nos lembra que a vida é mais que comida e o corpo mais que roupa. O que importa é buscar o Reino de Deus e viver para a eternidade.
अपरम् अहं युष्मभ्यं तथ्यं कथयामि, किं भक्षिष्यामः? किं पास्यामः? इति प्राणधारणाय मा चिन्तयत; किं परिधास्यामः? इति कायरक्षणाय न चिन्तयत; भक्ष्यात् प्राणा वसनाञ्च वपूंषि किं श्रेष्ठाणि न हि?
विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।
यूयं तेभ्यः किं श्रेष्ठा न भवथ? युष्माकं कश्चित् मनुजः चिन्तयन् निजायुषः क्षणमपि वर्द्धयितुं शक्नोति?
अपरञ्च मनुजः सर्व्वं जगत् प्राप्य यदि स्वप्राणं हारयति तर्हि तस्य को लाभः?
अथ स लोकान् शिष्यांश्चाहूय जगाद यः कश्चिन् मामनुगन्तुम् इच्छति स आत्मानं दाम्यतु, स्वक्रुशं गृहीत्वा मत्पश्चाद् आयातु।
यतो यः कश्चित् स्वप्राणं रक्षितुमिच्छति स तं हारयिष्यति, किन्तु यः कश्चिन् मदर्थं सुसंवादार्थञ्च प्राणं हारयति स तं रक्षिष्यति।
अपरञ्च मनुजः सर्व्वं जगत् प्राप्य यदि स्वप्राणं हारयति तर्हि तस्य को लाभः?
नरः स्वप्राणविनिमयेन किं दातुं शक्नोति?
एतेषां व्यभिचारिणां पापिनाञ्च लोकानां साक्षाद् यदि कोपि मां मत्कथाञ्च लज्जास्पदं जानाति तर्हि मनुजपुत्रो यदा धर्म्मदूतैः सह पितुः प्रभावेणागमिष्यति तदा सोपि तं लज्जास्पदं ज्ञास्यति।
अनन्तरं स लोकानवदत् लोभे सावधानाः सतर्काश्च तिष्ठत, यतो बहुसम्पत्तिप्राप्त्या मनुष्यस्यायु र्न भवति।
यस्त्वम् अद्वितीयः सत्य ईश्वरस्त्वया प्रेरितश्च यीशुः ख्रीष्ट एतयोरुभयोः परिचये प्राप्तेऽनन्तायु र्भवति।
यतः पापस्य वेतनं मरणं किन्त्वस्माकं प्रभुणा यीशुख्रीष्टेनानन्तजीवनम् ईश्वरदत्तं पारितोषिकम् आस्ते।
अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।
यतो वयं दृष्टिमार्गे न चरामः किन्तु विश्वासमार्गे।
अपरञ्च सर्व्वैः सार्थम् एेक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं।
अपरं ये बहिःस्थितास्तेषां दृष्टिगोचरे युष्माकम् आचरणं यत् मनोरम्यं भवेत् कस्यापि वस्तुनश्चाभावो युष्माकं यन्न भवेत्,
एतदर्थं यूयम् अस्मत्तो यादृशम् आदेशं प्राप्तवन्तस्तादृशं निर्विरोधाचारं कर्त्तुं स्वस्वकर्म्मणि मनांमि निधातुं निजकरैश्च कार्य्यं साधयितुं यतध्वं।
यच्च कुरुध्वे तत् मानुषमनुद्दिश्य प्रभुम् उद्दिश्य प्रफुल्लमनसा कुरुध्वं,
यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ।
यो जनः परीक्षां सहते स एव धन्यः, यतः परीक्षितत्वं प्राप्य स प्रभुना स्वप्रेमकारिभ्यः प्रतिज्ञातं जीवनमुकुटं लप्स्यते।
युष्माकं मध्ये ज्ञानी सुबोधश्च क आस्ते? तस्य कर्म्माणि ज्ञानमूलकमृदुतायुक्तानीति सदाचारात् स प्रमाणयतु।
अपरञ्च, जीवने प्रीयमाणो यः सुदिनानि दिदृक्षते। पापात् जिह्वां मृषावाक्यात् स्वाधरौ स निवर्त्तयेत्।
स त्यजेद् दुष्टतामार्गं सत्क्रियाञ्च समाचरेत्। मृगयाणश्च शान्तिं स नित्यमेवानुधावतु।