31 तस्माद् भोजनं पानम् अन्यद्वा कर्म्म कुर्व्वद्भि र्युष्माभिः सर्व्वमेवेश्वरस्य महिम्नः प्रकाशार्थं क्रियतां।
32 यिहूदीयानां भिन्नजातीयानाम् ईश्वरस्य समाजस्य वा विघ्नजनकै र्युष्माभि र्न भवितव्यं।
33 अहमप्यात्महितम् अचेष्टमानो बहूनां परित्राणार्थं तेषां हितं चेष्टमानः सर्व्वविषये सर्व्वेषां तुष्टिकरो भवामीत्यनेनाहं यद्वत् ख्रीष्टस्यानुगामी तद्वद् यूयं ममानुगामिनो भवत।