6 एतस्मिन् ते ऽस्माकं निदर्शनस्वरूपा बभूवुः; अतस्ते यथा कुत्सिताभिलाषिणो बभूवुरस्माभिस्तथा कुत्सिताभिलाषिभि र्न भवितव्यं।
7 लिखितमास्ते, लोका भोक्तुं पातुञ्चोपविविशुस्ततः क्रीडितुमुत्थिता इतयनेन प्रकारेण तेषां कैश्चिद् यद्वद् देवपूजा कृता युष्माभिस्तद्वत् न क्रियतां।
8 अपरं तेषां कैश्चिद् यद्वद् व्यभिचारः कृतस्तेन चैकस्मिन् दिने त्रयोविंशतिसहस्राणि लोका निपातितास्तद्वद् अस्माभि र्व्यभिचारो न कर्त्तव्यः।
9 तेषां केचिद् यद्वत् ख्रीष्टं परीक्षितवन्तस्तस्माद् भुजङ्गै र्नष्टाश्च तद्वद् अस्माभिः ख्रीष्टो न परीक्षितव्यः।
10 तेषां केचिद् यथा वाक्कलहं कृतवन्तस्तत्कारणात् हन्त्रा विनाशिताश्च युष्माभिस्तद्वद् वाक्कलहो न क्रियतां।
13 मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।