12 देह एकः सन्नपि यद्वद् बह्वङ्गयुक्तो भवति, तस्यैकस्य वपुषो ऽङ्गानां बहुत्वेन यद्वद् एकं वपु र्भवति, तद्वत् ख्रीष्टः।
13 यतो हेतो र्यिहूदिभिन्नजातीयदासस्वतन्त्रा वयं सर्व्वे मज्जनेनैकेनात्मनैकदेहीकृताः सर्व्वे चैकात्मभुक्ता अभवाम।
14 एकेनाङ्गेन वपु र्न भवति किन्तु बहुभिः।
15 तत्र चरणं यदि वदेत् नाहं हस्तस्तस्मात् शरीरस्य भागो नास्मीति तर्ह्यनेन शरीरात् तस्य वियोगो न भवति।
16 श्रोत्रं वा यदि वदेत् नाहं नयनं तस्मात् शरीरस्यांशो नास्मीति तर्ह्यनेन शरीरात् तस्य वियोगो न भवति।
17 कृत्स्नं शरीरं यदि दर्शनेन्द्रियं भवेत् तर्हि श्रवणेन्द्रियं कुत्र स्थास्यति? तत् कृत्स्नं यदि वा श्रवणेन्द्रियं भवेत् तर्हि घ्रणेन्द्रियं कुत्र स्थास्यति?
18 किन्त्विदानीम् ईश्वरेण यथाभिलषितं तथैवाङ्गप्रत्यङ्गानाम् एकैकं शरीरे स्थापितं।
19 तत् कृत्स्नं यद्येकाङ्गरूपि भवेत् तर्हि शरीरे कुत्र स्थास्यति?
20 तस्माद् अङ्गानि बहूनि सन्ति शरीरं त्वेकमेव।
21 अतएव त्वया मम प्रयोजनं नास्तीति वाचं पाणिं वदितुं नयनं न शक्नोति, तथा युवाभ्यां मम प्रयोजनं नास्तीति मूर्द्धा चरणौ वदितुं न शक्नोतिः;
22 वस्तुतस्तु विग्रहस्य यान्यङ्गान्यस्माभि र्दुर्ब्बलानि बुध्यन्ते तान्येव सप्रयोजनानि सन्ति।
23 यानि च शरीरमध्येऽवमन्यानि बुध्यते तान्यस्माभिरधिकं शोभ्यन्ते। यानि च कुदृश्यानि तानि सुदृश्यतराणि क्रियन्ते
24 किन्तु यानि स्वयं सुदृश्यानि तेषां शोभनम् निष्प्रयोजनं।
25 शरीरमध्ये यद् भेदो न भवेत् किन्तु सर्व्वाण्यङ्गानि यद् ऐक्यभावेन सर्व्वेषां हितं चिन्तयन्ति तदर्थम् ईश्वरेणाप्रधानम् आदरणीयं कृत्वा शरीरं विरचितं।
26 तस्माद् एकस्याङ्गस्य पीडायां जातायां सर्व्वाण्यङ्गानि तेन सह पीड्यन्ते, एकस्य समादरे जाते च सर्व्वाणि तेन सह संहृष्यन्ति।
27 यूयञ्च ख्रीष्टस्य शरीरं, युष्माकम् एकैकश्च तस्यैकैकम् अङ्गं।