7 एकैकस्मै तस्यात्मनो दर्शनं परहितार्थं दीयते।
8 एकस्मै तेनात्मना ज्ञानवाक्यं दीयते, अन्यस्मै तेनैवात्मनादिष्टं विद्यावाक्यम्,
9 अन्यस्मै तेनैवात्मना विश्वासः, अन्यस्मै तेनैवात्मना स्वास्थ्यदानशक्तिः,
10 अन्यस्मै दुःसाध्यसाधनशक्तिरन्यस्मै चेश्वरीयादेशः, अन्यस्मै चातिमानुषिकस्यादेशस्य विचारसामर्थ्यम्, अन्यस्मै परभाषाभाषणशक्तिरन्यस्मै च भाषार्थभाषणसामर्यं दीयते।
11 एकेनाद्वितीयेनात्मना यथाभिलाषम् एकैकस्मै जनायैकैकं दानं वितरता तानि सर्व्वाणि साध्यन्ते।