22 आदमा यथा सर्व्वे मरणाधीना जातास्तथा ख्रीष्टेन सर्व्वे जीवयिष्यन्ते।
23 किन्त्वेकैकेन जनेन निजे निजे पर्य्याय उत्थातव्यं प्रथमतः प्रथमजातफलस्वरूपेन ख्रीष्टेन, द्वितीयतस्तस्यागमनसमये ख्रीष्टस्य लोकैः।
24 ततः परम् अन्तो भविष्यति तदानीं स सर्व्वं शासनम् अधिपतित्वं पराक्रमञ्च लुप्त्वा स्वपितरीश्वरे राजत्वं समर्पयिष्यति।
25 यतः ख्रीष्टस्य रिपवः सर्व्वे यावत् तेन स्वपादयोरधो न निपातयिष्यन्ते तावत् तेनैव राजत्वं कर्त्तव्यं।