54 एतस्मिन् क्षयणीये शरीरे ऽक्षयत्वं गते, एतस्मन् मरणाधीने देहे चामरत्वं गते शास्त्रे लिखितं वचनमिदं सेत्स्यति, यथा, जयेन ग्रस्यते मृत्युः।
55 मृत्यो ते कण्टकं कुत्र परलोक जयः क्क ते॥
56 मृत्योः कण्टकं पापमेव पापस्य च बलं व्यवस्था।
57 ईश्वरश्च धन्यो भवतु यतः सोऽस्माकं प्रभुना यीशुख्रीष्टेनास्मान् जययुक्तान् विधापयति।