1 हे भ्रातरो युष्मत्समीपे ममागमनकालेऽहं वक्तृताया विद्याया वा नैपुण्येनेश्वरस्य साक्ष्यं प्रचारितवान् तन्नहि;
2 यतो यीशुख्रीष्टं तस्य क्रुशे हतत्वञ्च विना नान्यत् किमपि युष्मन्मध्ये ज्ञापयितुं विहितं बुद्धवान्।
3 अपरञ्चातीव दौर्ब्बल्यभीतिकम्पयुक्तो युष्माभिः सार्द्धमासं।
4 अपरं युष्माकं विश्वासो यत् मानुषिकज्ञानस्य फलं न भवेत् किन्त्वीश्वरीयशक्तेः फलं भवेत्,
5 तदर्थं मम वक्तृता मदीयप्रचारश्च मानुषिकज्ञानस्य मधुरवाक्यसम्बलितौ नास्तां किन्त्वात्मनः शक्तेश्च प्रमाणयुक्तावास्तां।