12 वयञ्चेहलोकस्यात्मानं लब्धवन्तस्तन्नहि किन्त्वीश्वरस्यैवात्मानं लब्धवन्तः, ततो हेतोरीश्वरेण स्वप्रसादाद् अस्मभ्यं यद् यद् दत्तं तत्सर्व्वम् अस्माभि र्ज्ञातुं शक्यते।
13 तच्चास्माभि र्मानुषिकज्ञानस्य वाक्यानि शिक्षित्वा कथ्यत इति नहि किन्त्वात्मतो वाक्यानि शिक्षित्वात्मिकै र्वाक्यैरात्मिकं भावं प्रकाशयद्भिः कथ्यते।
14 प्राणी मनुष्य ईश्वरीयात्मनः शिक्षां न गृह्लाति यत आत्मिकविचारेण सा विचार्य्येति हेतोः स तां प्रलापमिव मन्यते बोद्धुञ्च न शक्नोति।