14 प्राणी मनुष्य ईश्वरीयात्मनः शिक्षां न गृह्लाति यत आत्मिकविचारेण सा विचार्य्येति हेतोः स तां प्रलापमिव मन्यते बोद्धुञ्च न शक्नोति।
15 आत्मिको मानवः सर्व्वाणि विचारयति किन्तु स्वयं केनापि न विचार्य्यते।
16 यत ईश्वरस्य मनो ज्ञात्वा तमुपदेष्टुं कः शक्नोति? किन्तु ख्रीष्टस्य मनोऽस्माभि र्लब्धं।