1 अपरं युष्माकं मध्ये व्यभिचारो विद्यते स च व्यभिचारस्तादृशो यद् देवपूजकानां मध्येऽपि तत्तुल्यो न विद्यते फलतो युष्माकमेको जनो विमातृगमनं कृरुत इति वार्त्ता सर्व्वत्र व्याप्ता।
2 तथाच यूयं दर्पध्माता आध्बे, तत् कर्म्म येन कृतं स यथा युष्मन्मध्याद् दूरीक्रियते तथा शोको युष्माभि र्न क्रियते किम् एतत्?