24 पण्यलाभार्थं ये धावन्ति धावतां तेषां सर्व्वेषां केवल एकः पण्यं लभते युष्माभिः किमेतन्न ज्ञायते? अतो यूयं यथा पण्यं लप्स्यध्वे तथैव धावत।
25 मल्ला अपि सर्व्वभोगे परिमितभोगिनो भवन्ति ते तु म्लानां स्रजं लिप्सन्ते किन्तु वयम् अम्लानां लिप्सामहे।
26 तस्माद् अहमपि धावामि किन्तु लक्ष्यमनुद्दिश्य धावामि तन्नहि। अहं मल्लइव युध्यामि च किन्तु छायामाघातयन्निव युध्यामि तन्नहि।
27 इतरान् प्रति सुसंवादं घोषयित्वाहं यत् स्वयमग्राह्यो न भवामि तदर्थं देहम् आहन्मि वशीकुर्व्वे च।