6 वयं तेन सहांशिन इति गदित्वा यद्यन्धाकारे चरामस्तर्हि सत्याचारिणो न सन्तो ऽनृतवादिनो भवामः।
7 किन्तु स यथा ज्योतिषि वर्त्तते तथा वयमपि यदि ज्योतिषि चरामस्तर्हि परस्परं सहभागिनो भवामस्तस्य पुत्रस्य यीशुख्रीष्टस्य रुधिरञ्चास्मान् सर्व्वस्मात् पापात् शुद्धयति।