7 हे प्रियतमाः, युष्मान् प्रत्यहं नूतनामाज्ञां लिखामीति नहि किन्त्वादितो युष्माभि र्लब्धां पुरातनामाज्ञां लिखामि। आदितो युष्माभि र्यद् वाक्यं श्रुतं सा पुरातनाज्ञा।
8 पुनरपि युष्मान् प्रति नूतनाज्ञा मया लिख्यत एतदपि तस्मिन् युष्मासु च सत्यं, यतो ऽन्धकारो व्यत्येति सत्या ज्योतिश्चेदानीं प्रकाशते;