3 यत ईश्वरे यत् प्रेम तत् तदीयाज्ञापालनेनास्माभिः प्रकाशयितव्यं, तस्याज्ञाश्च कठोरा न भवन्ति।
4 यतो यः कश्चिद् ईश्वरात् जातः स संसारं जयति किञ्चास्माकं यो विश्वासः स एवास्माकं संसारजयिजयः।
5 यीशुरीश्वरस्य पुत्र इति यो विश्वसिति तं विना कोऽपरः संसारं जयति?