1 हे योषितः, यूयमपि निजस्वामिनां वश्या भवत तथा सति यदि केचिद् वाक्ये विश्वासिनो न सन्ति तर्हि
2 ते विनावाक्यं योषिताम् आचारेणार्थतस्तेषां प्रत्यक्षेण युष्माकं सभयसतीत्वाचारेणाक्रष्टुं शक्ष्यन्ते।
3 अपरं केशरचनया स्वर्णालङ्कारधारणोन परिच्छदपरिधानेन वा युष्माकं वाह्यभूषा न भवतु,
4 किन्त्वीश्वरस्य साक्षाद् बहुमूल्यक्षमाशान्तिभावाक्षयरत्नेन युक्तो गुप्त आन्तरिकमानव एव।
5 यतः पूर्व्वकाले याः पवित्रस्त्रिय ईश्वरे प्रत्याशामकुर्व्वन् ता अपि तादृशीमेव भूषां धारयन्त्यो निजस्वामिनां वश्या अभवन्।
6 तथैव सारा इब्राहीमो वश्या सती तं पतिमाख्यातवती यूयञ्च यदि सदाचारिण्यो भवथ व्याकुलतया च भीता न भवथ तर्हि तस्याः कन्या आध्वे।