3 ईश्वरस्यायम् अभिलाषो यद् युष्माकं पवित्रता भवेत्, यूयं व्यभिचाराद् दूरे तिष्ठत।
4 युष्माकम् एकैको जनः स्वकीयं प्राणाधारं पवित्रं मान्यञ्च रक्षतु,
5 ये च भिन्नजातीया लोका ईश्वरं न जानन्ति त इव तत् कामाभिलाषस्याधीनं न करोतु।
6 एतस्मिन् विषये कोऽप्यत्याचारी भूत्वा स्वभ्रातरं न वञ्चयतु यतोऽस्माभिः पूर्व्वं यथोक्तं प्रमाणीकृतञ्च तथैव प्रभुरेतादृशानां कर्म्मणां समुचितं फलं दास्यति।
7 यस्माद् ईश्वरोऽस्मान् अशुचितायै नाहूतवान् किन्तु पवित्रत्वायैवाहूतवान्।