6 अतो ऽपरे यथा निद्रागताः सन्ति तद्वद् अस्माभि र्न भवितव्यं किन्तु जागरितव्यं सचेतनैश्च भवितव्यं।
7 ये निद्रान्ति ते निशायामेव निद्रान्ति ते च मत्ता भवन्ति ते रजन्यामेव मत्ता भवन्ति।
8 किन्तु वयं दिवसस्य वंशा भवामः; अतो ऽस्माभि र्वक्षसि प्रत्ययप्रेमरूपं कवचं शिरसि च परित्राणाशारूपं शिरस्त्रं परिधाय सचेतनै र्भवितव्यं।
9 यत ईश्वरोऽस्मान् क्रोधे न नियुज्यास्माकं प्रभुना यीशुख्रीष्टेन परित्राणस्याधिकारे नियुुक्तवान्,