15 अस्माकं प्रभो र्दीर्घसहिष्णुताञ्च परित्राणजनिकां मन्यध्वं। अस्माकं प्रियभ्रात्रे पौलाय यत् ज्ञानम् अदायि तदनुसारेण सोऽपि पत्रे युष्मान् प्रति तदेवालिखत्।
16 स्वकीयसर्व्वपत्रेषु चैतान्यधि प्रस्तुत्य तदेव गदति। तेषु पत्रेषु कतिपयानि दुरूह्याणि वाक्यानि विद्यन्ते ये च लोका अज्ञानाश्चञ्चलाश्च ते निजविनाशार्थम् अन्यशास्त्रीयवचनानीव तान्यपि विकारयन्ति।