17 तस्माद् हे प्रियतमाः, यूयं पूर्व्वं बुद्ध्वा सावधानास्तिष्ठत, अधार्म्मिकाणां भ्रान्तिस्रोतसापहृताः स्वकीयसुस्थिरत्वात् मा भ्रश्यत।
18 किन्त्वस्माकं प्रभोस्त्रातु र्यीशुख्रीष्टस्यानुग्रहे ज्ञाने च वर्द्धध्वं। तस्य गौरवम् इदानीं सदाकालञ्च भूयात्। आमेन्।