3 अहम् आ पूर्व्वपुरुषात् यम् ईश्वरं पवित्रमनसा सेवे तं धन्यं वदनं कथयामि, अहम् अहोरात्रं प्रार्थनासमये त्वां निरन्तरं स्मरामि।
4 यश्च विश्वासः प्रथमे लोयीनामिकायां तव मातामह्याम् उनीकीनामिकायां मातरि चातिष्ठत् तवान्तरेऽपि तिष्ठतीति मन्ये
5 तव तं निष्कपटं विश्वासं मनसि कुर्व्वन् तवाश्रुपातं स्मरन् यथानन्देन प्रफल्लो भवेयं तदर्थं तव दर्शनम् आकाङ्क्षे।